ऋग्वेद - मण्डल 10/ सूक्त 61/ मन्त्र 5
ऋषिः - नाभानेदिष्ठो मानवः
देवता - विश्वेदेवा:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
प्रथि॑ष्ट॒ यस्य॑ वी॒रक॑र्ममि॒ष्णदनु॑ष्ठितं॒ नु नर्यो॒ अपौ॑हत् । पुन॒स्तदा वृ॑हति॒ यत्क॒नाया॑ दुहि॒तुरा अनु॑भृतमन॒र्वा ॥
स्वर सहित पद पाठप्रथि॑ष्ट । यस्य॑ । वी॒रऽक॑र्मम् । इ॒ष्णत् । अनु॑ऽस्थितम् । नु । नर्यः॑ । अप॑ । औ॒ह॒त् । पुन॒रिति॑ । तत् । आ । वृ॒ह॒ति॒ । यत् । क॒नायाः॑ । दु॒हि॒तुः । आः । अनु॑ऽभृतम् । अ॒न॒र्वा ॥
स्वर रहित मन्त्र
प्रथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्यो अपौहत् । पुनस्तदा वृहति यत्कनाया दुहितुरा अनुभृतमनर्वा ॥
स्वर रहित पद पाठप्रथिष्ट । यस्य । वीरऽकर्मम् । इष्णत् । अनुऽस्थितम् । नु । नर्यः । अप । औहत् । पुनरिति । तत् । आ । वृहति । यत् । कनायाः । दुहितुः । आः । अनुऽभृतम् । अनर्वा ॥ १०.६१.५
ऋग्वेद - मण्डल » 10; सूक्त » 61; मन्त्र » 5
अष्टक » 8; अध्याय » 1; वर्ग » 26; मन्त्र » 5
अष्टक » 8; अध्याय » 1; वर्ग » 26; मन्त्र » 5
पदार्थः -
(यस्य वीरकर्मम्-प्रथिष्ट) यस्य गृहस्थस्य पुत्रकर्म पुत्रार्थकर्म वीर्यसेचनम् “पुत्रो वै वीरः” [श० ३।३।१।१२] प्रथितं प्रथते वा (इष्णत्-अनुष्ठितम्) पुत्ररूपेण प्राप्तम् “इष्णन् प्राप्नुवन्” [ऋ० ४।१७।३ दयानन्दः] सेवितं सेवायां सफलीभूतं युवानं (पुनः-तत्-आवृहति) पुनस्तं स समन्तादुद्यच्छति पुत्रोत्पादनेन (नु नर्यः-अपौहत्) नरेभ्यो हितो हितकरः सन् सर्वकार्यभारं त्यजेत् (यत्) यतः (कनायाः-दुहितुः-अनुभृतम्-आस्) कान्तायाः सन्तान-दोहनयोग्यायाः पत्न्याः-आनुकूल्येन धारितमासीत् (अनर्वा) स्वस्मिन् समर्थाऽनन्याश्रमी जातः ॥५॥