Loading...
ऋग्वेद मण्डल - 10 के सूक्त 61 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 61/ मन्त्र 3
    ऋषिः - नाभानेदिष्ठो मानवः देवता - विश्वेदेवा: छन्दः - स्वराडार्चीत्रिष्टुप् स्वरः - धैवतः

    मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विप॒: शच्या॑ वनु॒थो द्रव॑न्ता । आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तौ ॥

    स्वर सहित पद पाठ

    मनः॑ । न । येषु॑ । हव॑नेषु । ति॒ग्मम् । विपः॑ । शच्या॑ । व॒नु॒थः । द्रव॑न्ता । आ । यः । शर्या॑भिः । तु॒वि॒ऽनृ॒म्णः । अ॒स्य॒ । अश्री॑णीत । आ॒ऽदिश॑म् । गभ॑स्तौ ॥


    स्वर रहित मन्त्र

    मनो न येषु हवनेषु तिग्मं विप: शच्या वनुथो द्रवन्ता । आ यः शर्याभिस्तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ ॥

    स्वर रहित पद पाठ

    मनः । न । येषु । हवनेषु । तिग्मम् । विपः । शच्या । वनुथः । द्रवन्ता । आ । यः । शर्याभिः । तुविऽनृम्णः । अस्य । अश्रीणीत । आऽदिशम् । गभस्तौ ॥ १०.६१.३

    ऋग्वेद - मण्डल » 10; सूक्त » 61; मन्त्र » 3
    अष्टक » 8; अध्याय » 1; वर्ग » 26; मन्त्र » 3

    पदार्थः -
    (येषु  हवनेषु) येषु खल्वामन्त्रणेषु “हवनश्रुतः-ह्वानश्रुतः” [निरु० ६।२०] विद्याग्रहणेषु वा (मनः-न तिग्मम्) मन इव तीव्रगतिकम् “तिग्म तीव्रम्” [ऋ० १।१३०।४ दयानन्दः] (विपः) विपम् “सुपां सु...” [अष्टा० ७।१।३९] ‘इति सुप्रत्ययः’ मेधाविनामधीतविद्यं स्नातकं (द्रवन्तां शच्या वनुथः) प्राप्नुवन्तौ मातापितरौ स्त्रीपुरुषौ वाचा वाक्सत्कारेण “शची वाङ्नाम” [निघ०  १।११] सम्भजतः स्निह्यतः ‘पुरुषव्यत्ययः’ (यः) यस्स्नातकः (तुविनृम्णः) बहुविद्याधनोऽस्ति (अस्य शर्याभिः) स्नेहमयीभिरङ्गुलिभिः “शर्या अङ्गुलिनाम” [निघ० २।५] (आदिशं गभस्तौ-आश्रीणीत) आदेशनं वचनं पाणौ हस्ते गृहीत्वेव “पाणी वै गभस्ती” श०  ४।१।१।२]  सर्वो जनः समन्तात् पोषयेत् ॥३॥

    इस भाष्य को एडिट करें
    Top