Loading...
ऋग्वेद मण्डल - 10 के सूक्त 62 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 62/ मन्त्र 3
    ऋषिः - नाभानेदिष्ठो मानवः देवता - विश्वे देवा आङ्गिरसो वा छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    य ऋ॒तेन॒ सूर्य॒मारो॑हयन्दि॒व्यप्र॑थयन्पृथि॒वीं मा॒तरं॒ वि । सु॒प्र॒जा॒स्त्वम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥

    स्वर सहित पद पाठ

    ये । ऋ॒तेन॑ । सूर्य॑म् । आ । अरो॑हयन् । दि॒वि । अप्र॑थयन् । पृ॒थि॒वीम् । मा॒तर॑म् । वि । सु॒प्र॒जाः॒ऽत्वम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥


    स्वर रहित मन्त्र

    य ऋतेन सूर्यमारोहयन्दिव्यप्रथयन्पृथिवीं मातरं वि । सुप्रजास्त्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥

    स्वर रहित पद पाठ

    ये । ऋतेन । सूर्यम् । आ । अरोहयन् । दिवि । अप्रथयन् । पृथिवीम् । मातरम् । वि । सुप्रजाःऽत्वम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥ १०.६२.३

    ऋग्वेद - मण्डल » 10; सूक्त » 62; मन्त्र » 3
    अष्टक » 8; अध्याय » 2; वर्ग » 1; मन्त्र » 3

    पदार्थः -
    (ये-ऋतेन दिवि सूर्यम्-आरोहयन्) ये खलु तज्ज्ञानेन तत्तेजसा वा सरणशीलं प्रगतिमन्तं श्रोतारं सूर्यं वा मोक्षधाम्नि द्युलोके वा आरोहयन्ति नयन्ति-समन्तात् प्रकाशयन्ति वा (मातरं पृथिवीं वि-अप्रथयन्) निर्मात्रीं प्रथनशीलां “पृथिवीं व प्रथमानायै स्त्रियै” [ऋ० १।१८५।१ दयानन्दः] च विशिष्टतया प्रसिद्धां प्रकाशितां वा श्रोत्रीं स्त्रियं च कुर्वन्ति (अङ्गिरस-वः-सुप्रजास्त्वम्-अस्तु) हे विद्वांसः-किरणाः वा ! युष्मभ्यं सुसन्तानभावं सुशिष्यत्वं सुखवानस्पत्यादित्वं भवतु। अग्रे पूर्ववत् ॥३॥

    इस भाष्य को एडिट करें
    Top