Loading...
ऋग्वेद मण्डल - 10 के सूक्त 61 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 61/ मन्त्र 27
    ऋषिः - नाभानेदिष्ठो मानवः देवता - विश्वेदेवा: छन्दः - भुरिगार्चीत्रिष्टुप् स्वरः - धैवतः

    त ऊ॒ षु णो॑ म॒हो य॑जत्रा भू॒त दे॑वास ऊ॒तये॑ स॒जोषा॑: । ये वाजाँ॒ अन॑यता वि॒यन्तो॒ ये स्था नि॑चे॒तारो॒ अमू॑राः ॥

    स्वर सहित पद पाठ

    ते । ऊँ॒ इति॑ । सु । नः॒ । म॒हः । य॒ज॒त्राः॒ । भू॒त । दे॒वा॒सः॒ । ऊ॒तये॑ । स॒ऽजोषाः॑ । ये । वाजा॑न् । अन॑यत । वि॒ऽयन्तः॑ । ये । स्थ । नि॒ऽचे॒तारः॑ । अमू॑राः ॥


    स्वर रहित मन्त्र

    त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषा: । ये वाजाँ अनयता वियन्तो ये स्था निचेतारो अमूराः ॥

    स्वर रहित पद पाठ

    ते । ऊँ इति । सु । नः । महः । यजत्राः । भूत । देवासः । ऊतये । सऽजोषाः । ये । वाजान् । अनयत । विऽयन्तः । ये । स्थ । निऽचेतारः । अमूराः ॥ १०.६१.२७

    ऋग्वेद - मण्डल » 10; सूक्त » 61; मन्त्र » 27
    अष्टक » 8; अध्याय » 1; वर्ग » 30; मन्त्र » 7

    पदार्थः -
    (यजत्राः सजोषाः-देवासः) हे अध्यात्मयाजिनः समानप्रीतिमन्तो मुमुक्षवः ! (ते) ते यूयम्  (नः) अस्मभ्यम् (उ सु-ऊतये महः-भूतम्) अवश्यं सुष्ठु रक्षणाय महान्तो महत्त्ववन्तो भवत (ये वाजान् वियन्तः-अनयत) ये यूयं विशिष्टं गतिं कुर्वन्तः खल्वमृतान्नभोगान् “अमृतान्नं वै वाजः” [जै० २।१९२] प्रापयत (ये निचेतारः-अमूराः-स्थ) ये यूयं निरन्तरं ज्ञानस्य चयनं कारयितारः-सावधानाः स्थ ॥२७॥

    इस भाष्य को एडिट करें
    Top