Loading...
ऋग्वेद मण्डल - 10 के सूक्त 61 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 61/ मन्त्र 26
    ऋषिः - नाभानेदिष्ठो मानवः देवता - विश्वेदेवा: छन्दः - स्वराडार्चीत्रिष्टुप् स्वरः - धैवतः

    स गृ॑णा॒नो अ॒द्भिर्दे॒ववा॒निति॑ सु॒बन्धु॒र्नम॑सा सू॒क्तैः । वर्ध॑दु॒क्थैर्वचो॑भि॒रा हि नू॒नं व्यध्वै॑ति॒ पय॑स उ॒स्रिया॑याः ॥

    स्वर सहित पद पाठ

    सः । गृ॒णा॒नः । अ॒त्ऽभिः । दे॒वऽवा॑न् । इति॑ । सु॒ऽबन्धुः॑ । नम॑सा । सु॒ऽउ॒क्तैः । वर्ध॑त् । उ॒क्थैः । वचः॑ऽभिः । आ । हि । नू॒नम् । वि । अध्वा॑ । ए॒ति॒ । पय॑सः । उ॒स्रिया॑याः ॥


    स्वर रहित मन्त्र

    स गृणानो अद्भिर्देववानिति सुबन्धुर्नमसा सूक्तैः । वर्धदुक्थैर्वचोभिरा हि नूनं व्यध्वैति पयस उस्रियायाः ॥

    स्वर रहित पद पाठ

    सः । गृणानः । अत्ऽभिः । देवऽवान् । इति । सुऽबन्धुः । नमसा । सुऽउक्तैः । वर्धत् । उक्थैः । वचःऽभिः । आ । हि । नूनम् । वि । अध्वा । एति । पयसः । उस्रियायाः ॥ १०.६१.२६

    ऋग्वेद - मण्डल » 10; सूक्त » 61; मन्त्र » 26
    अष्टक » 8; अध्याय » 1; वर्ग » 30; मन्त्र » 6

    पदार्थः -
    (सः-देववान् सुबन्धुः-इति) देवा मुमुक्षवो यस्य सन्ति स परमात्मा खलूपासकाः सुशोभनो बन्धुः-इति प्रसिद्धः (अद्भिः-नमसा सूक्तैः गृणानः) आप्तजनैः “मनुष्या वा-आपश्चन्द्राः” [श० ७।६।१।२०] स्तुत्या सुवचनैः स्तूयमानो भवति (उक्थैः-वचोभिः-वर्धत्) यतः स प्रशस्तैर्वचनैर्वर्धयति स्तोतारं (नूनं हि-उस्रियायाः पयसः-अध्वा वि-आ-एति) सम्प्रति सद्यो हि-उत्स्राविण्या गोः पयसो यथाऽध्वा मार्गो भवति तथा स्तुत्याः फलमनुसरन् ध्यानमार्गेण विशिष्टतया प्राप्नोति ॥२६॥

    इस भाष्य को एडिट करें
    Top