Loading...
ऋग्वेद मण्डल - 10 के सूक्त 7 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 7/ मन्त्र 3
    ऋषिः - त्रितः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अ॒ग्निं म॑न्ये पि॒तर॑म॒ग्निमा॒पिम॒ग्निं भ्रात॑रं॒ सद॒मित्सखा॑यम् । अ॒ग्नेरनी॑कं बृह॒तः स॑पर्यं दि॒वि शु॒क्रं य॑ज॒तं सूर्य॑स्य ॥

    स्वर सहित पद पाठ

    अ॒ग्निम् । म॒न्ये॒ । पि॒तर॑म् । अ॒ग्निम् । आ॒पिम् । अ॒ग्निम् । भ्रात॑रम् । सद॑म् । इत् । सखा॑यम् । अ॒ग्नेः । अनी॑कम् । बृ॒ह॒तः । स॒प॒र्य॒न् । दि॒वि । शु॒क्रम् । य॒ज॒तम् । सूर्य॑स्य ॥


    स्वर रहित मन्त्र

    अग्निं मन्ये पितरमग्निमापिमग्निं भ्रातरं सदमित्सखायम् । अग्नेरनीकं बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य ॥

    स्वर रहित पद पाठ

    अग्निम् । मन्ये । पितरम् । अग्निम् । आपिम् । अग्निम् । भ्रातरम् । सदम् । इत् । सखायम् । अग्नेः । अनीकम् । बृहतः । सपर्यन् । दिवि । शुक्रम् । यजतम् । सूर्यस्य ॥ १०.७.३

    ऋग्वेद - मण्डल » 10; सूक्त » 7; मन्त्र » 3
    अष्टक » 7; अध्याय » 6; वर्ग » 2; मन्त्र » 3

    पदार्थः -
    (अग्निं पितरं सदम्-इत्-मन्ये) अग्रणायकं परमात्मानं सदैव पितरं मन्ये-भावयामि (अग्निम्-आपिम्) अग्रणायकपरमात्मानं सम्बन्धेन प्राप्तं सम्बन्धिनं सदैव भावयामि (अग्निं भ्रातरम्) अग्रणायकपरमात्मानं भ्रातरं भावयामि (सखायम्) तथा मित्रं भावयामि (दिवि बृहतः सूर्यस्य-अग्नेः) द्युलोके स्थितस्य महतः सूर्यरूपस्याग्नेः (अनीकं शुक्रं यजतं सपर्यम्) सेनानीरिव नायकं संस्थापकम् “सेनाया वै सेनानीरनीकम्” [श० ५।३।१।१] प्रकाशकं यजनीयं सङ्गमनीयं परमात्मानं परिचरेयम्-स्तुयाम् “सपर्यति परिचरणकर्मा” [निघ० ३।५] ॥३॥

    इस भाष्य को एडिट करें
    Top