ऋग्वेद - मण्डल 10/ सूक्त 7/ मन्त्र 2
इ॒मा अ॑ग्ने म॒तय॒स्तुभ्यं॑ जा॒ता गोभि॒रश्वै॑र॒भि गृ॑णन्ति॒ राध॑: । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ड्वसो॒ दधा॑नो म॒तिभि॑: सुजात ॥
स्वर सहित पद पाठइ॒माः । अ॒ग्ने॒ । म॒तयः॑ । तुभ्य॑म् । जा॒ताः । गोभिः॑ । अश्वैः॑ । अ॒भि । गृ॒ण॒न्ति॒ । राधः॑ । य॒दा । ते॒ । मर्तः॑ । अनु॑ । भोग॑म् । आन॑ट् । वसो॒ इति॑ । दधा॑नः । म॒तिऽभिः॑ । सु॒ऽजा॒त॒ ॥
स्वर रहित मन्त्र
इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गृणन्ति राध: । यदा ते मर्तो अनु भोगमानड्वसो दधानो मतिभि: सुजात ॥
स्वर रहित पद पाठइमाः । अग्ने । मतयः । तुभ्यम् । जाताः । गोभिः । अश्वैः । अभि । गृणन्ति । राधः । यदा । ते । मर्तः । अनु । भोगम् । आनट् । वसो इति । दधानः । मतिऽभिः । सुऽजात ॥ १०.७.२
ऋग्वेद - मण्डल » 10; सूक्त » 7; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 2; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 2; मन्त्र » 2
पदार्थः -
(अग्ने) हे अग्रणायक परमात्मन् ! (इमाः-मतयः) एताः-मनुष्यप्रजाः-उपासकजनाः “प्रजा वै मतयः” [तै० आ० ५।६।८] (तुभ्यम्) त्वदर्थम् (गोभिः-अश्वैः-जाताः) इन्द्रियैराशुगमनशीलैर्मनोबुद्धिचित्ताहङ्कारैः सुसम्पन्नाः (राधः-अभिगृणन्ति) राधनीयं स्तुत्यं वचनं स्तुवन्ति (यदा ते मर्तः) यदा तव मनुष्यः-उपासक-जनः (भोगम्-अनु-आनट्) आनन्दरसेन सह व्याप्नोति (वसो) हे वासयितः ! (सुजात मतिभिः-दधानः) हे सुप्रसिद्ध परमात्मन् ! अस्माभिरुपासकप्रजाभिर्धार्यमाणः सन् प्राप्तो भव ॥२॥