ऋग्वेद - मण्डल 10/ सूक्त 70/ मन्त्र 1
ऋषिः - सुमित्रो वाध्र्यश्चः
देवता - आप्रियः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इ॒मां मे॑ अग्ने स॒मिधं॑ जुषस्वे॒ळस्प॒दे प्रति॑ हर्या घृ॒ताची॑म् । वर्ष्म॑न्पृथि॒व्याः सु॑दिन॒त्वे अह्ना॑मू॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ॥
स्वर सहित पद पाठइ॒माम् । मे॒ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । जु॒ष॒स्व॒ । इ॒ळः । प॒दे । प्रति॑ । ह॒र्य॒ । घृ॒ताची॑म् । वर्ष्म॑न् । पृ॒थि॒व्याः । सु॒दिन॒ऽत्वे । अह्ना॑म् । ऊ॒र्ध्वः । भ॒व॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दे॒व॒ऽय॒ज्या ॥
स्वर रहित मन्त्र
इमां मे अग्ने समिधं जुषस्वेळस्पदे प्रति हर्या घृताचीम् । वर्ष्मन्पृथिव्याः सुदिनत्वे अह्नामूर्ध्वो भव सुक्रतो देवयज्या ॥
स्वर रहित पद पाठइमाम् । मे । अग्ने । सम्ऽइधम् । जुषस्व । इळः । पदे । प्रति । हर्य । घृताचीम् । वर्ष्मन् । पृथिव्याः । सुदिनऽत्वे । अह्नाम् । ऊर्ध्वः । भव । सुक्रतो इति सुऽक्रतो । देवऽयज्या ॥ १०.७०.१
ऋग्वेद - मण्डल » 10; सूक्त » 70; मन्त्र » 1
अष्टक » 8; अध्याय » 2; वर्ग » 21; मन्त्र » 1
अष्टक » 8; अध्याय » 2; वर्ग » 21; मन्त्र » 1
विषयः - अत्र विद्यासूर्यविदुषो विद्या तत्सहायकरी भवति, विदुषो विद्या ग्राह्या, परमात्मनः स्तुतिप्रार्थनोपासनास्तेन सह मैत्रीं सम्पादयन्ति ताश्च मनबुद्धिचित्ताहङ्कारैः साधनीयाः, इति वर्ण्यते।
पदार्थः -
(इडस्पदे) स्तुत्याः पदे स्तुतिस्थाने हृदये वर्तमान ! यद्वा ज्ञानप्रकाशस्य स्थाने विद्यास्थाने वर्तमान ! “ईडे स्तुतिकर्मणः, इन्धतेर्वा” [निरु० ८।८] (अग्ने) अग्रणायक परमात्मन् ! यद्वा विद्वन् ! (मे) मम (इमां समिधं जुषस्व) एतां समिन्धनीयां सम्यक् प्रकाशन्यामात्मसमिधं स्वगुणैः प्रकाशनार्थं सेवायां नय यद्वा शिष्यभावनया समर्पितां समिधं तुच्छोपहारभूतां सेवस्व-स्वीकुरु “समित्पाणिः श्रोत्रियं गुरुमभिगच्छ ब्रह्मनिष्ठम्” [मुण्डक उप० १।२] (घृताचीम्) अज्ञानरात्रिम् “घृताची रात्रिनाम” [निघ० १।७] (प्रतिहर्य) प्रतिगमय दूरं कुरु “हर्यति गतिकर्मा” [निघ० २।१४] (सुक्रतो) हे सुकर्म सुप्रज्ञान ! (देवयज्या) उपास्यदेवस्य तव सङ्गतिर्यथा स्यात् तथाभूतया भवत्सङ्गत्याः (पृथिव्याः-वर्ष्मन्) शरीरस्य “यच्छरीरं सा पृथिवी” [ऐ० आ० २।३।३] प्राणवर्षणस्थाने प्राणप्रेरकस्थाने हृदये वर्तमानो भव ध्यानेन ज्ञानेन वा हृदये स्थानं प्राप्नुहि (सुदिनत्वे) मम शोभनदिननिमित्तं (अह्नाम्-ऊर्ध्वः-भव) मम समस्तजीवनदिवसानामुपरि-अधिष्ठाता भव ॥१॥