ऋग्वेद - मण्डल 10/ सूक्त 70/ मन्त्र 2
ऋषिः - सुमित्रो वाध्र्यश्चः
देवता - आप्रियः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
आ दे॒वाना॑मग्र॒यावे॒ह या॑तु॒ नरा॒शंसो॑ वि॒श्वरू॑पेभि॒रश्वै॑: । ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो॑ दे॒वेभ्यो॑ दे॒वत॑मः सुषूदत् ॥
स्वर सहित पद पाठआ । दे॒वाना॑म् । अ॒ग्र॒ऽयावा॑ । इ॒ह । या॒तु॒ । नरा॒शंसः॑ । वि॒श्वऽरू॑पेभिः । अश्वैः॑ । ऋ॒तस्य॑ । प॒था । नम॑सा । मि॒येधः॑ । दे॒वेभ्यः॑ । दे॒वऽत॑मः । सु॒सू॒द॒त् ॥
स्वर रहित मन्त्र
आ देवानामग्रयावेह यातु नराशंसो विश्वरूपेभिरश्वै: । ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत् ॥
स्वर रहित पद पाठआ । देवानाम् । अग्रऽयावा । इह । यातु । नराशंसः । विश्वऽरूपेभिः । अश्वैः । ऋतस्य । पथा । नमसा । मियेधः । देवेभ्यः । देवऽतमः । सुसूदत् ॥ १०.७०.२
ऋग्वेद - मण्डल » 10; सूक्त » 70; मन्त्र » 2
अष्टक » 8; अध्याय » 2; वर्ग » 21; मन्त्र » 2
अष्टक » 8; अध्याय » 2; वर्ग » 21; मन्त्र » 2
पदार्थः -
(देवानाम्-अग्रयावा) जीवन्मुक्तानामग्रे मोक्षे प्रेरयिता परमात्मा यद्वा विद्याकामानामग्रे प्रेरयिता विद्वान् (नराशंसः) नरैः शंसनीयः परमात्मा विद्वान् वा (विश्वरूपेभिः-अश्वैः) समस्तनिरूपणीयै-र्व्यापनगुणैः (आयातु) मम हृदये स्थाने वा समन्तात् प्राप्तो भवतु (ऋतस्य पथा) अध्यात्मयज्ञस्य ज्ञानस्य वा मार्गेण (मनसा-मियेधः) मनसा मननादिना वासनाप्रक्षेपणकर्त्तुः पात्रस्य दीपयिता “मिञ् प्रक्षेपणे” [स्वादिः] ‘ततः कश्छान्दसः पुनः-इन्धी दीप्तौ ततश्चापि कः प्रत्ययः’ (देवेभ्यः-देवतमः सुषूदत्) दिव्यगुणेषु विशिष्टदिव्यगुणवान् स्वानन्दं ज्ञानं सुष्ठु क्षारयतु ॥२॥