ऋग्वेद - मण्डल 10/ सूक्त 70/ मन्त्र 3
ऋषिः - सुमित्रो वाध्र्यश्चः
देवता - आप्रियः
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
श॒श्व॒त्त॒ममी॑ळते दू॒त्या॑य ह॒विष्म॑न्तो मनु॒ष्या॑सो अ॒ग्निम् । वहि॑ष्ठै॒रश्वै॑: सु॒वृता॒ रथे॒ना दे॒वान्व॑क्षि॒ नि ष॑दे॒ह होता॑ ॥
स्वर सहित पद पाठश॒श्व॒त्ऽत॒मम् । ई॒ळ॒ते॒ । दू॒त्या॑य । ह॒विष्म॑न्तः । म॒नु॒ष्या॑सः । अ॒ग्निम् । वहि॑ष्ठैः । अश्वैः॑ । सु॒ऽवृता॑ । रथे॑न । आ । दे॒वान् । व॒क्षि॒ । नि । स॒द॒ । इ॒ह । होता॑ ॥
स्वर रहित मन्त्र
शश्वत्तममीळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम् । वहिष्ठैरश्वै: सुवृता रथेना देवान्वक्षि नि षदेह होता ॥
स्वर रहित पद पाठशश्वत्ऽतमम् । ईळते । दूत्याय । हविष्मन्तः । मनुष्यासः । अग्निम् । वहिष्ठैः । अश्वैः । सुऽवृता । रथेन । आ । देवान् । वक्षि । नि । सद । इह । होता ॥ १०.७०.३
ऋग्वेद - मण्डल » 10; सूक्त » 70; मन्त्र » 3
अष्टक » 8; अध्याय » 2; वर्ग » 21; मन्त्र » 3
अष्टक » 8; अध्याय » 2; वर्ग » 21; मन्त्र » 3
पदार्थः -
(हविष्मन्तः-मनुष्यासः) मनस्विनो मननशीला वा “मनो हविः” [तै० आ० ३।६।१] मनुष्याः (शश्वत्तमम्-अग्निं दूत्याय-ईळते) सदातनं महान्तं परमात्मानं स्वानन्दस्य ज्ञानस्य वा द्रावणाय “दूतो जवतेर्वा द्रवतेर्वा” [निरु० ५।१] स्तुवन्ति (वहिष्ठैः-अश्वैः) संसारवहनकर्त्तृभिर्व्यापकगुणैः, तथा (सुवृता रथेन) सुवर्तनेन रमणीयमोक्षेण (देवान् वक्षि) जीवन्मुक्तान् वहसि (होता-इह निषद) मम स्वीकर्त्ताऽत्र हृदये विराजस्व ॥३॥