Loading...
ऋग्वेद मण्डल - 10 के सूक्त 70 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 70/ मन्त्र 4
    ऋषिः - सुमित्रो वाध्र्यश्चः देवता - आप्रियः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू॑त्व॒स्मे । अहे॑ळता॒ मन॑सा देव बर्हि॒रिन्द्र॑ज्येष्ठाँ उश॒तो य॑क्षि दे॒वान् ॥

    स्वर सहित पद पाठ

    वि । प्र॒थ॒ता॒म् । दे॒वऽजु॑ष्टम् । ति॒र॒श्चा । दी॒र्घम् । द्रा॒घ्मा । सु॒र॒भि । भू॒तु॒ । अ॒स्मे इति॑ । अहे॑ळत । मन॑सा । दे॒व॒ । ब॒र्हिः॒ । इन्द्र॑ऽज्येष्ठान् । उ॒श॒तः । य॒क्षि॒ । दे॒वान् ॥


    स्वर रहित मन्त्र

    वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि भूत्वस्मे । अहेळता मनसा देव बर्हिरिन्द्रज्येष्ठाँ उशतो यक्षि देवान् ॥

    स्वर रहित पद पाठ

    वि । प्रथताम् । देवऽजुष्टम् । तिरश्चा । दीर्घम् । द्राघ्मा । सुरभि । भूतु । अस्मे इति । अहेळत । मनसा । देव । बर्हिः । इन्द्रऽज्येष्ठान् । उशतः । यक्षि । देवान् ॥ १०.७०.४

    ऋग्वेद - मण्डल » 10; सूक्त » 70; मन्त्र » 4
    अष्टक » 8; अध्याय » 2; वर्ग » 21; मन्त्र » 4

    पदार्थः -
    (देवजुष्टं बर्हिः) जीवन्मुक्तैः सेवितव्यं प्रवृद्धं विज्ञानम् “भूमा वै बर्हिः” [श० १।५।४।४] “बर्हिः-विज्ञानम्” [ऋ० १।८३।६ दयानन्दः] (विप्रथताम्) विस्तृतं भवतु (अस्मे) अस्मभ्यं (तिरश्चा दीर्घं द्राघ्मा सुरभि भूतु) तिरश्चीनमन्तर्गतम् “तिरोऽन्तर्धौ” [अष्टा० १।४।७०] महत्-चिरस्थायि सुगन्धरूपं भवतु (देव) हे परमात्मदेव ! (अहेळता मनसा) क्रोधरहितेन दयापूर्णेन मनसेव स्वज्ञानेन (इन्द्रज्येष्ठान्-उशतः-देवान्) इन्द्रं त्वां परमात्मानं ज्येष्ठं स्वोपरि वर्तमानं ये मन्यन्ते तान्, त्वां ये कामयन्ते तान् “वश कान्तौ” [अदादिः] विदुषः (यक्षि) सङ्गमयसि ॥४॥

    इस भाष्य को एडिट करें
    Top