ऋग्वेद - मण्डल 10/ सूक्त 70/ मन्त्र 5
ऋषिः - सुमित्रो वाध्र्यश्चः
देवता - आप्रियः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
दि॒वो वा॒ सानु॑ स्पृ॒शता॒ वरी॑यः पृथि॒व्या वा॒ मात्र॑या॒ वि श्र॑यध्वम् । उ॒श॒तीर्द्वा॑रो महि॒ना म॒हद्भि॑र्दे॒वं रथं॑ रथ॒युर्धा॑रयध्वम् ॥
स्वर सहित पद पाठदि॒वः । वा॒ । सानु॑ । स्पृ॒शत॑ । वरी॑यः । पृ॒थि॒व्या । वा॒ । मात्र॑या । वि । श्र॒य॒ध्व॒म् । उ॒श॒तीः । द्वा॒रः॒ । म॒हि॒ना । म॒हत्ऽभिः॑ । दे॒वम् । रथ॑म् । र॒थ॒ऽयुः । धा॒र॒य॒ध्व॒म् ॥
स्वर रहित मन्त्र
दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया वि श्रयध्वम् । उशतीर्द्वारो महिना महद्भिर्देवं रथं रथयुर्धारयध्वम् ॥
स्वर रहित पद पाठदिवः । वा । सानु । स्पृशत । वरीयः । पृथिव्या । वा । मात्रया । वि । श्रयध्वम् । उशतीः । द्वारः । महिना । महत्ऽभिः । देवम् । रथम् । रथऽयुः । धारयध्वम् ॥ १०.७०.५
ऋग्वेद - मण्डल » 10; सूक्त » 70; मन्त्र » 5
अष्टक » 8; अध्याय » 2; वर्ग » 21; मन्त्र » 5
अष्टक » 8; अध्याय » 2; वर्ग » 21; मन्त्र » 5
पदार्थः -
(द्वारः) हे द्वार इव सुशोभिता देव्यः ! “द्वारः द्वार इव सुशोभिताः” [ऋ० १।४२।६ दयानन्दः] इन्द्रियद्वारतो निःसृताः शुभो वृत्तयो वा (दिवः-वा सानु स्पृशत) मोक्षधाम्नः स्वर्गस्य भजनीयं सुखं प्राप्नुत (पृथिव्याः-वा वरीयः) प्रथितायाः सृष्टेश्च महत्तरं सुखम् (मात्रया विश्रयध्वम्) आंशिकरूपेण विश्रयत (उशतीः) कामयमानाः सत्यः (महिना महद्भिः-देवं रथं रथयुः-धारयध्वम्) गुणमहत्त्वेन महद्भिर्विद्वद्भिः स्वीकृतमनुमोदितं वा दिव्यं रमणीयं मोक्षं गार्हस्थ्यं वा रमणं कामयमानाः-धारयत ॥५॥