Loading...
ऋग्वेद मण्डल - 10 के सूक्त 70 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 70/ मन्त्र 6
    ऋषिः - सुमित्रो वाध्र्यश्चः देवता - आप्रियः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    दे॒वी दि॒वो दु॑हि॒तरा॑ सुशि॒ल्पे उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ । आ वां॑ दे॒वास॑ उशती उ॒शन्त॑ उ॒रौ सी॑दन्तु सुभगे उ॒पस्थे॑ ॥

    स्वर सहित पद पाठ

    दे॒वी इति॑ । दि॒वः । दु॒हि॒तरा॑ । सु॒शि॒ल्पे इति॑ सु॒ऽशि॒ल्पे । उ॒षसा॒नक्ता॑ । स॒द॒ता॒म् । नि । योनौ॑ । आ । वा॒म् । दे॒वासः॑ । उ॒श॒ती॒ इति॑ । उ॒शन्तः॑ । उ॒रौ । सी॒द॒न्तु॒ । सु॒भ॒गे॒ इति॑ सुऽभगे । उ॒पऽस्थे॑ ॥


    स्वर रहित मन्त्र

    देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नि योनौ । आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगे उपस्थे ॥

    स्वर रहित पद पाठ

    देवी इति । दिवः । दुहितरा । सुशिल्पे इति सुऽशिल्पे । उषसानक्ता । सदताम् । नि । योनौ । आ । वाम् । देवासः । उशती इति । उशन्तः । उरौ । सीदन्तु । सुभगे इति सुऽभगे । उपऽस्थे ॥ १०.७०.६

    ऋग्वेद - मण्डल » 10; सूक्त » 70; मन्त्र » 6
    अष्टक » 8; अध्याय » 2; वर्ग » 22; मन्त्र » 1

    पदार्थः -
    (दिवः-दुहितरा सुशिल्पे देवी-उषासानक्ता) सूर्यस्येव प्रकाशमानस्य ज्ञानसूर्यस्य विदुषो दुहितराविव दोग्ध्र्यौ सुकर्मसाधिके “शिल्पं कर्मनाम” [निघ० २।१] दिव्यसुखदात्र्यौ-उषोरात्रे इव विद्यायोषे (योनौ निसदताम्) सुबुद्धौ प्रशस्तबुद्धिमति मयि जने “सुधीन् योनीन्” [काठ० १।१२] नितिष्ठतां (सुभगे-उशती) हे सुभाग्यनिमित्तभूते ! कमनीये (उशन्तः-देवासः) कामयमाना विद्वांसः (वाम्-उरौ-उपस्थे-आसीदन्तु) युवयोः-विस्तृते उपयुक्त- स्थानेऽध्ययनश्रवणस्थाने समन्तात् प्राप्नुवन्ति ‘लडर्थे लोट् छान्दसः’ ॥६॥

    इस भाष्य को एडिट करें
    Top