Loading...
ऋग्वेद मण्डल - 10 के सूक्त 70 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 70/ मन्त्र 7
    ऋषिः - सुमित्रो वाध्र्यश्चः देवता - आप्रियः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    ऊ॒र्ध्वो ग्रावा॑ बृ॒हद॒ग्निः समि॑द्धः प्रि॒या धामा॒न्यदि॑तेरु॒पस्थे॑ । पु॒रोहि॑तावृत्विजा य॒ज्ञे अ॒स्मिन्वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथाम् ॥

    स्वर सहित पद पाठ

    ऊ॒र्ध्वः । ग्रावा॑ । बृ॒हत् । अ॒ग्निः । सम्ऽइ॑द्धः । प्रि॒या । धामा॑नि । अदि॑तेः । उ॒पऽस्थे॑ । पु॒रःऽहि॑तौ । ऋ॒त्वि॒जा॒ । य॒ज्ञे । अ॒स्मिन् । वि॒दुःऽत॑रा । द्रवि॑णम् । आ । य॒जे॒था॒म् ॥


    स्वर रहित मन्त्र

    ऊर्ध्वो ग्रावा बृहदग्निः समिद्धः प्रिया धामान्यदितेरुपस्थे । पुरोहितावृत्विजा यज्ञे अस्मिन्विदुष्टरा द्रविणमा यजेथाम् ॥

    स्वर रहित पद पाठ

    ऊर्ध्वः । ग्रावा । बृहत् । अग्निः । सम्ऽइद्धः । प्रिया । धामानि । अदितेः । उपऽस्थे । पुरःऽहितौ । ऋत्विजा । यज्ञे । अस्मिन् । विदुःऽतरा । द्रविणम् । आ । यजेथाम् ॥ १०.७०.७

    ऋग्वेद - मण्डल » 10; सूक्त » 70; मन्त्र » 7
    अष्टक » 8; अध्याय » 2; वर्ग » 22; मन्त्र » 2

    पदार्थः -
    (ऊर्ध्वः-ग्रावा) उत्कृष्टो विद्वान्-उपदेष्टा “विद्वांसो हि ग्रावाणः” [श० ३।९।३।१४] (बृहत्-समिद्धः-अग्निः) बृहत् महान् ज्ञानदीप्तोऽव्यापकः (अदितेः-उपस्थे प्रिया धामानि) अखण्डितविद्यावतो विदुषः “अदितिः सर्वे विद्वांसः” [ऋ० १।९८।३ दयानन्दः] उपतिष्ठन्ते विद्या यस्मिन् तस्मिन् मस्तिष्के हृदये वा प्रियाणि ज्ञानानि (अस्मिन् यज्ञे) अस्मिन् ज्ञानयज्ञे (पुरोहितौ-ऋत्विजौ) पुरःस्थितौ समये ज्ञानदातारौ-अध्यापकोपदेशकौ (विदुष्टरा) अत्यन्तविद्वांसौ (द्रविणम्-आयजेथाम्) ज्ञानधनं समन्ताद् दत्तम् ॥७॥

    इस भाष्य को एडिट करें
    Top