Loading...
ऋग्वेद मण्डल - 10 के सूक्त 70 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 70/ मन्त्र 8
    ऋषिः - सुमित्रो वाध्र्यश्चः देवता - आप्रियः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    तिस्रो॑ देवीर्ब॒र्हिरि॒दं वरी॑य॒ आ सी॑दत चकृ॒मा व॑: स्यो॒नम् । म॒नु॒ष्वद्य॒ज्ञं सुधि॑ता ह॒वींषीळा॑ दे॒वी घृ॒तप॑दी जुषन्त ॥

    स्वर सहित पद पाठ

    तिस्रः॑ । दे॒वीः॒ । ब॒र्हिः । इ॒दम् । वरी॑यः । आ । सी॒द॒त॒ । च॒कृ॒म । वः॒ । स्यो॒नम् । म॒नु॒ष्वत् । य॒ज्ञम् । सुऽधि॑ता । ह॒वींषि॑ । इळा॑ । दे॒वी । घृ॒तऽप॑दी । जु॒ष॒न्त॒ ॥


    स्वर रहित मन्त्र

    तिस्रो देवीर्बर्हिरिदं वरीय आ सीदत चकृमा व: स्योनम् । मनुष्वद्यज्ञं सुधिता हवींषीळा देवी घृतपदी जुषन्त ॥

    स्वर रहित पद पाठ

    तिस्रः । देवीः । बर्हिः । इदम् । वरीयः । आ । सीदत । चकृम । वः । स्योनम् । मनुष्वत् । यज्ञम् । सुऽधिता । हवींषि । इळा । देवी । घृतऽपदी । जुषन्त ॥ १०.७०.८

    ऋग्वेद - मण्डल » 10; सूक्त » 70; मन्त्र » 8
    अष्टक » 8; अध्याय » 2; वर्ग » 22; मन्त्र » 3

    पदार्थः -
    (तिस्रः-देवीः) हे तिस्रो देव्यः ! (इदं वरीयः बर्हिः-आसीदत) अध्यात्मयज्ञस्यासने विराजध्वं (वः-स्योनं चकृम) युष्मभ्यं सुखं कुर्मः (इळा देवी घृतपदी) स्तुतिः “ईड स्तुतौ” [अदादि०] कामना-प्रार्थना “दिवु क्रीडा-विजिगीषाव्यवहारद्युतिस्तुतिमोदमद-स्वप्नकान्तिगतिषु” [दिवादिः] ‘कान्तिः कामना प्रार्थनाऽत्र गृह्यते’ तेजःस्वरूपा खलूपासना “तेजोऽसि तेजो मयि धेहि” [यजु० १९।९] (मनुष्वद् यज्ञं सुधिता हवींषि जुषन्त) मनुष्यवति यज्ञे ‘विभक्तेर्लुक्, विभक्तिव्यत्ययश्च’ मनुष्यस्यान्तरे वर्तमानेऽध्यात्मयज्ञे सुधितानि-सुहितानि मनांसि मनोबुद्धिचित्ताहङ्कारान् सेवध्वम्-तदनुसरन्त्यो भवत ॥८॥

    इस भाष्य को एडिट करें
    Top