ऋग्वेद - मण्डल 10/ सूक्त 75/ मन्त्र 2
ऋषिः - सिन्धुक्षित्प्रैयमेधः
देवता - नद्यः
छन्दः - विराड्जगती
स्वरः - निषादः
प्र ते॑ऽरद॒द्वरु॑णो॒ यात॑वे प॒थः सिन्धो॒ यद्वाजाँ॑ अ॒भ्यद्र॑व॒स्त्वम् । भूम्या॒ अधि॑ प्र॒वता॑ यासि॒ सानु॑ना॒ यदे॑षा॒मग्रं॒ जग॑तामिर॒ज्यसि॑ ॥
स्वर सहित पद पाठप्र । ते॒ । अ॒र॒द॒त् । वरु॑णः । यात॑वे । प॒थः । सिन्धो॒ इति॑ । यत् । वाजा॑न् । अ॒भि । अद्र॑वः । त्वम् । भूम्याः॑ । अधि॑ । प्र॒ऽवता॑ । या॒सि॒ । सानु॑ना । यत् । ए॒षा॒म् । अग्र॑म् । जग॑ताम् । इ॒र॒ज्यसि॑ ॥
स्वर रहित मन्त्र
प्र तेऽरदद्वरुणो यातवे पथः सिन्धो यद्वाजाँ अभ्यद्रवस्त्वम् । भूम्या अधि प्रवता यासि सानुना यदेषामग्रं जगतामिरज्यसि ॥
स्वर रहित पद पाठप्र । ते । अरदत् । वरुणः । यातवे । पथः । सिन्धो इति । यत् । वाजान् । अभि । अद्रवः । त्वम् । भूम्याः । अधि । प्रऽवता । यासि । सानुना । यत् । एषाम् । अग्रम् । जगताम् । इरज्यसि ॥ १०.७५.२
ऋग्वेद - मण्डल » 10; सूक्त » 75; मन्त्र » 2
अष्टक » 8; अध्याय » 3; वर्ग » 6; मन्त्र » 2
अष्टक » 8; अध्याय » 3; वर्ग » 6; मन्त्र » 2
पदार्थः -
(सिन्धो) हे स्यन्दनशील जलप्रवाह ! (वरुणः) सर्वेषां वरणीयः “आवरको वा परमात्मा” [ऋ० १।९८।३ दयानन्दः] (ते यातवे) तव गमनाय प्रवहणाय (पथः-प्र-अरदत्) मार्गान् प्ररचयति (त्वं यत्-वाजान्-अभ्यद्रवः) यतस्त्वं-अन्नौषध्यादिपदार्थान्-अभिलक्ष्य द्रवसि-वहसि, (सानुना प्रवता भूम्याः-अधि-यासि) पृथिव्याः-अधि, पृथिव्याः-उपरि, पृथिव्यामित्यर्थः, अधि सप्तम्यार्थाभिधायी, समुद्धृतेन-समुच्छृतात्-मेघात् पतिता सती “सानु मेघस्य शिखरः” [ऋ० १।५८।२ दयानन्दः] निम्नस्थानक्रमेण “प्रवत्सु निम्नासु” [ऋ० ६।४७।४ दयानन्दः] गच्छसि (एषां जगताम्-अग्रं यत्-इरज्यसि) एषां जङ्गमानां यद्वा जङ्गमादीनां प्रथमं सुखं साधयितुं परिचरसि “इरज्यति परिचरणकर्मा” [निघ० ३।५] ॥२॥