Loading...
ऋग्वेद मण्डल - 10 के सूक्त 75 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 75/ मन्त्र 1
    ऋषिः - सिन्धुक्षित्प्रैयमेधः देवता - नद्यः छन्दः - निचृज्जगती स्वरः - निषादः

    प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो॑चाति॒ सद॑ने वि॒वस्व॑तः । प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिन्धु॒रोज॑सा ॥

    स्वर सहित पद पाठ

    प्र । सु । वः॒ । आ॒पः॒ । म॒हि॒मान॑म् । उ॒त्ऽत॒मम् । का॒रुः । वो॒चा॒ति॒ । सद॑ने । वि॒वस्व॑तः । प्र । स॒प्तऽस॑प्त । त्रे॒धा । हि । च॒क्र॒मुः । प्र । सृत्व॑रीणाम् । अति॑ । सिन्धुः॑ । ओज॑सा ॥


    स्वर रहित मन्त्र

    प्र सु व आपो महिमानमुत्तमं कारुर्वोचाति सदने विवस्वतः । प्र सप्तसप्त त्रेधा हि चक्रमुः प्र सृत्वरीणामति सिन्धुरोजसा ॥

    स्वर रहित पद पाठ

    प्र । सु । वः । आपः । महिमानम् । उत्ऽतमम् । कारुः । वोचाति । सदने । विवस्वतः । प्र । सप्तऽसप्त । त्रेधा । हि । चक्रमुः । प्र । सृत्वरीणाम् । अति । सिन्धुः । ओजसा ॥ १०.७५.१

    ऋग्वेद - मण्डल » 10; सूक्त » 75; मन्त्र » 1
    अष्टक » 8; अध्याय » 3; वर्ग » 6; मन्त्र » 1

    पदार्थः -
    (आपः) हे आप्ता व्याप्ता प्रवाहाः ! (वः) युष्माकम् (उत्तमं महिमानम्) उत्तमं महत्त्वं (कारुः सु प्रवोचाति) स्तुतिकर्त्ता शिल्पी “स्तुत्यानां शिल्पकर्मणां कर्त्ता” [ऋ० १।८३।६ दयानन्दः] सीम्नां कर्त्ता “स्तोमानां कर्त्ता” [निरु० ६।६] “स्तोमा आसन् प्रतिधमः” [ऋ० १०।८५।८] प्रवक्ति प्रब्रवीति (विवस्वतः सदने) यो विशिष्टतया राष्ट्रे विज्ञानस्थले वसति तस्य राज्ञो वैज्ञानिकस्य राजभवने विज्ञानभवने वा (सप्त सप्त त्रेधा हि प्रचक्रमुः) सप्त सप्त त्रिषु स्थानेषु, एकैकस्थाने सप्त सप्त भूत्वा प्रक्रामन्ति प्रवहन्ति, ‘आपस्त्रिषु स्थानेषु सन्ति’ पृथिव्यामन्तरिक्षे दिवि च, यथोक्तम् “द्यौर्वा अपां सदनम्” [श० ७।५।२।५६] “अन्तरिक्षं वा अपां सधस्थम्” [श० ७।५।२।५७] “इयं पृथिवी वा अपामयनमस्यां ह्यापो वहन्ति” [श० ७।५।२।५०] दिवि कथमित्युच्यते “अमूर्या उपसूर्ये याभिर्वा सूर्यः सह” [अथर्व० १।४।२] ता आपः अप्तत्त्वपदार्थाः, दिवि सप्तरङ्गवन्तः सूर्यरश्मयः, अन्तरिक्षे सप्तरङ्गा विद्युत्तरङ्गाः, पृथिव्यां सप्त जलप्रवाहाः। (प्रसृत्वरीणाम्) तासामपां व्याप्तधाराणां (सिन्धुः) स्यन्दमानः प्रवाहः (ओजसा-अति) बलेन वेगेन अतिवहति ॥१॥

    इस भाष्य को एडिट करें
    Top