ऋग्वेद - मण्डल 10/ सूक्त 8/ मन्त्र 1
ऋषिः - त्रिशिरास्त्वाष्ट्रः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
प्र के॒तुना॑ बृह॒ता या॑त्य॒ग्निरा रोद॑सी वृष॒भो रो॑रवीति । दि॒वश्चि॒दन्ताँ॑ उप॒माँ उदा॑नळ॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ॥
स्वर सहित पद पाठप्र । के॒तुना॑ । बृ॒ह॒ता । या॒ति॒ । अ॒ग्निः । आ । रोद॑सी॒ इति॑ । वृ॒ष॒भः । रो॒र॒वी॒ति॒ । दि॒वः । चि॒त् । अन्ता॑न् । उ॒प॒ऽमान् । उत् । आ॒न॒ट् । अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षः । व॒व॒र्ध॒ ॥
स्वर रहित मन्त्र
प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति । दिवश्चिदन्ताँ उपमाँ उदानळपामुपस्थे महिषो ववर्ध ॥
स्वर रहित पद पाठप्र । केतुना । बृहता । याति । अग्निः । आ । रोदसी इति । वृषभः । रोरवीति । दिवः । चित् । अन्तान् । उपऽमान् । उत् । आनट् । अपाम् । उपऽस्थे । महिषः । ववर्ध ॥ १०.८.१
ऋग्वेद - मण्डल » 10; सूक्त » 8; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 3; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 3; मन्त्र » 1
विषयः - अस्मिन् सूक्तेऽग्निशब्देन लोकत्रये वर्तमानस्याग्नितत्त्वस्य वर्णनं क्रियते। इन्द्रशब्देन च परमात्मोपास्यत्वेन वर्ण्यते।
पदार्थः -
(अग्निः) महान्-अग्निः (बृहता केतुना) महता ज्ञापकेन प्रकाशेन (रोदसी) द्यावापृथिव्यौ-द्यावापृथिवीमयं जगत् प्रति (प्र याति) प्रगच्छति-प्राप्नोति, तत्र विभाग उच्यते (वृषभः-रोरवीति) पृथिव्यामग्निरूपेण प्रज्वलन् सन् वृषभ इव भृशं शब्दयति वायुमिश्रितः (दिवः-अन्तान्-उपमान्-चित्) द्युलोके सूर्यरूपेण द्युलोकस्य प्रान्तभागानुपाश्रितान् पिण्डरूपान् खल्वपि (उदानट्) उपरि सन् व्याप्नोति (अपाम्-उपस्थे) अन्तरिक्षस्य “आपोऽन्तरिक्षनाम” [निघ० १।३] मध्ये यद्वा-अपां जलानामुपरिस्थाने-अन्तरिक्षे विद्युद्रूपेण (महिषः-ववर्ध) एवं महान् सन् वृद्धिमाप्तोऽस्ति ॥१॥