ऋग्वेद - मण्डल 10/ सूक्त 7/ मन्त्र 7
भवा॑ नो अग्नेऽवि॒तोत गो॒पा भवा॑ वय॒स्कृदु॒त नो॑ वयो॒धाः । रास्वा॑ च नः सुमहो ह॒व्यदा॑तिं॒ त्रास्वो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥
स्वर सहित पद पाठभव॑ । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । उ॒त । गो॒पाः । भव॑ । व॒यः॒ऽकृत् । उ॒त । नः॒ । व॒यः॒ऽधाः । रास्व॑ । च॒ । नः॒ । सु॒ऽम॒हः । ह॒व्यऽदा॑तिम् । त्रास्व॑ । उ॒त । नः॒ । त॒न्वः॑ । अप्र॑ऽयुच्छन् ॥
स्वर रहित मन्त्र
भवा नो अग्नेऽवितोत गोपा भवा वयस्कृदुत नो वयोधाः । रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस्तन्वो३ अप्रयुच्छन् ॥
स्वर रहित पद पाठभव । नः । अग्ने । अविता । उत । गोपाः । भव । वयःऽकृत् । उत । नः । वयःऽधाः । रास्व । च । नः । सुऽमहः । हव्यऽदातिम् । त्रास्व । उत । नः । तन्वः । अप्रऽयुच्छन् ॥ १०.७.७
ऋग्वेद - मण्डल » 10; सूक्त » 7; मन्त्र » 7
अष्टक » 7; अध्याय » 6; वर्ग » 2; मन्त्र » 7
अष्टक » 7; अध्याय » 6; वर्ग » 2; मन्त्र » 7
पदार्थः -
(अग्ने) हे अग्रणायक परमात्मन् ! त्वम् (नः-अविता-उत-गोपाः-भव) अस्माकं बाह्यभयाद् रक्षकस्तथाऽऽन्तरिकरोगादपि रक्षको भव (नः) अस्माकम्-अस्मासु (वयस्कृत्-उत वयोधाः-भव) प्राणस्य कर्ता तथा प्राणस्य धारयिता भव “प्राणो वै वयः” [ऐ० १।२८] (सुमहः) हे सुमहनीय परमात्मन् ! (हव्यदातिं रास्व) हव्यानां समर्प्याणां स्तुतिवचनानां दानयोग्यतां देहि (उत-नः) तथा अस्माकं (तन्वः-अप्रयुच्छन्-त्रास्व) शरीराणि अप्रमाद्यन्-अनुपेक्षमाणः सन् त्रायस्व ॥७॥