ऋग्वेद - मण्डल 10/ सूक्त 7/ मन्त्र 6
स्व॒यं य॑जस्व दि॒वि दे॑व दे॒वान्किं ते॒ पाक॑: कृणव॒दप्र॑चेताः । यथाय॑ज ऋ॒तुभि॑र्देव दे॒वाने॒वा य॑जस्व त॒न्वं॑ सुजात ॥
स्वर सहित पद पाठस्व॒यम् । य॒ज॒स्व॒ । दि॒वि । दे॒व॒ । दे॒वान् । किम् । ते॒ । पाकः॑ । कृ॒ण॒व॒त् । अप्र॑ऽचेताः । यथा॑ । अय॑जः । ऋ॒तुऽभिः॑ । दे॒व॒ । दे॒वान् । ए॒व । य॒ज॒स्व॒ । त॒न्व॑म् । सु॒ऽजा॒त॒ ॥
स्वर रहित मन्त्र
स्वयं यजस्व दिवि देव देवान्किं ते पाक: कृणवदप्रचेताः । यथायज ऋतुभिर्देव देवानेवा यजस्व तन्वं सुजात ॥
स्वर रहित पद पाठस्वयम् । यजस्व । दिवि । देव । देवान् । किम् । ते । पाकः । कृणवत् । अप्रऽचेताः । यथा । अयजः । ऋतुऽभिः । देव । देवान् । एव । यजस्व । तन्वम् । सुऽजात ॥ १०.७.६
ऋग्वेद - मण्डल » 10; सूक्त » 7; मन्त्र » 6
अष्टक » 7; अध्याय » 6; वर्ग » 2; मन्त्र » 6
अष्टक » 7; अध्याय » 6; वर्ग » 2; मन्त्र » 6
पदार्थः -
(देव) हे परमेष्टदेव ! (दिवि देवान् स्वयं यजस्व) द्युलोके वर्तमानान् सूर्यादीन् “देवो-द्युस्थानो भवतीति वा” [निरु० ७।१५] त्वं स्वयं सङ्गमय सम्यक् गुणवतः कृत्वा संस्थापय प्रेरय च-सङ्गमयसि-संस्थापयसि प्रेरयसि च (अप्रचेताः-पाकः- ते किं कृण्वत्) यः खल्वप्रकृष्टचेताः-अल्पज्ञस्त्वया च पक्तव्यो ज्ञानदानेन “पाकः पक्तव्यो भवति” [निरु० ३।१२] जीवात्मा तव किं साहाय्यं कुर्यात् ? न किमपि कर्त्तुमर्हति, यद्यपि जीवात्माऽपि त्वद्वन्नित्यश्चेतनश्चास्ति (देव) हे-उपास्यदेव परमात्मन् ! (यथा-ऋतुभिः-देवान्-अयजः) यथा खलु त्वमृतुभिः-उचितकालैस्तान् दिव्यगुणान् देवान् तत्तद्गुणैः समसृजत्-संसृजति (एव) एवम् (सुजात तन्वं यजस्व) हे सुप्रसिद्ध परमात्मदेव ! स्वतनूं मामात्मानं यजस्व योग्यं सम्पादय ज्ञानदर्शनदानेन “वृणते तनूं स्वाम्” [मुण्डकोप० ३।३] “आत्मा वै तनूः” [श० ६/७/२/६] ॥६॥