ऋग्वेद - मण्डल 10/ सूक्त 81/ मन्त्र 1
ऋषिः - विश्वकर्मा भौवनः
देवता - विश्वकर्मा
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता न॑: । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒ आ वि॑वेश ॥
स्वर सहित पद पाठयः । इ॒मा । विश्वा॑ । भुव॑नानि । जुह्व॑त् । ऋषिः॑ । होता॑ । नि । असी॑दत् । पि॒ता । नः॒ । सः । आ॒ऽशिषा॑ । द्रवि॑णम् । इ॒च्छमा॑नः । प्र॒थ॒म॒ऽच्छत् । अव॑रान् । आ । वि॒वे॒श॒ ॥
स्वर रहित मन्त्र
य इमा विश्वा भुवनानि जुह्वदृषिर्होता न्यसीदत्पिता न: । स आशिषा द्रविणमिच्छमानः प्रथमच्छदवराँ आ विवेश ॥
स्वर रहित पद पाठयः । इमा । विश्वा । भुवनानि । जुह्वत् । ऋषिः । होता । नि । असीदत् । पिता । नः । सः । आऽशिषा । द्रविणम् । इच्छमानः । प्रथमऽच्छत् । अवरान् । आ । विवेश ॥ १०.८१.१
ऋग्वेद - मण्डल » 10; सूक्त » 81; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 1
विषयः - अत्र सूक्ते परमात्मा प्रलयकाले सर्वान् पदार्थान् स्वस्मिन् लीनीकरोति जीवाश्च तत्र मूर्च्छिता भवन्ति जीवन्मुक्तास्तु तत्प्रेरणया मोक्षानन्दं भुञ्जते मूलात् प्रकृतिरूपात् संसारमुत्पादयतीत्येवमादयो विषया वर्ण्यन्ते।
पदार्थः -
(यः-ऋषिः-होता) यः सर्वद्रष्टा सर्वज्ञः परमेश्वर: प्रलयकाले सर्वान् स्वस्मिन्नादाता "हु आदाने च" [जुहो॰] (विश्वा भुवनानि) सर्वाणि पृथिव्यादीनि लोकलोकान्तराणि (जुहुत्-नि-असीदत्) स्वस्मिन् गृह्णन् सन् विराजते (सः-नः पिता-आशिषा द्रविणम्-इच्छमानः) सोऽस्माकं पिता जनक आश्रयदानेन स्वबलं पराक्रमं दर्शयितुमाकाङ्क्षन् (प्रथमच्छत्-अवरान्-आविवेश) प्रथममुपादान-कारणं प्रकृत्याख्यं छादयति तथाभूतः स खल्ववरान् पश्चादुत्पन्नान् जडजङ्गमान् समन्ताद्विशति ॥१॥