ऋग्वेद - मण्डल 10/ सूक्त 81/ मन्त्र 2
ऋषिः - विश्वकर्मा भौवनः
देवता - विश्वकर्मा
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
किं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी॑त् । यतो॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥
स्वर सहित पद पाठकिम् । स्वि॒त् । आ॒सी॒त् । अ॒धि॒ऽस्थान॑म् । आ॒ऽरम्भ॑णम् । क॒त॒मत् । स्वि॒त् । क॒था । आ॒सी॒त् । यतः॑ । भूमि॑म् । ज॒नय॑न् । वि॒श्वऽक॑र्मा । वि । द्याम् । और्णो॑त् । म॒हि॒ना । वि॒श्वऽच॑क्षाः ॥
स्वर रहित मन्त्र
किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथासीत् । यतो भूमिं जनयन्विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षाः ॥
स्वर रहित पद पाठकिम् । स्वित् । आसीत् । अधिऽस्थानम् । आऽरम्भणम् । कतमत् । स्वित् । कथा । आसीत् । यतः । भूमिम् । जनयन् । विश्वऽकर्मा । वि । द्याम् । और्णोत् । महिना । विश्वऽचक्षाः ॥ १०.८१.२
ऋग्वेद - मण्डल » 10; सूक्त » 81; मन्त्र » 2
अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 2
अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 2
पदार्थः -
(किं-स्वित्-अधिष्ठानम्-आसीत्) विश्वोत्पादनकाले तस्य किं खल्वाश्रयणमासीत् (कतमत् स्वित्-आरम्भणम् कथा-आसीत्) कतमद्धि यत आरभ्यते जगत् तत् कतमत् खलु मूलं कथं जातीयमासीत् “आरभ्यतेअस्मादिति ल्युट्-अपादाने कृत्यल्युटो बहुलमिति वचनात्” (यत:) यतो मूलात् (विश्वकर्मा) विश्वं यस्य कर्म स विश्वरचयिता परमेश्वर: (भूमिं द्यां जनयन्) भुमिलोकं द्युलोकं च द्यावापृथिवीमयं जगज्-जनयन् (विश्वचक्षाः-महिना व्यौर्णोत्) विश्वद्रष्टा परमेश्वरः स्वमहत्त्वेन तन्मूलं विवृणोति विकासयति सृष्टिरूपे प्रसारयति ॥२॥