ऋग्वेद - मण्डल 10/ सूक्त 81/ मन्त्र 5
ऋषिः - विश्वकर्मा भौवनः
देवता - विश्वकर्मा
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॑ वृधा॒नः ॥
स्वर सहित पद पाठया । ते॒ । धामा॑नि । प॒र॒माणि॑ । या । अ॒व॒मा । या । म॒ध्य॒मा । वि॒श्व॒ऽक॒र्म॒न् । उ॒त । इ॒मा । शिक्ष॑ । सखि॑ऽभ्यः । ह॒विषि॑ । स्व॒धा॒ऽवः॒ । स्व॒यम् । य॒ज॒स्व॒ । त॒न्व॑म् । वृ॒धा॒नः ॥
स्वर रहित मन्त्र
या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा । शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥
स्वर रहित पद पाठया । ते । धामानि । परमाणि । या । अवमा । या । मध्यमा । विश्वऽकर्मन् । उत । इमा । शिक्ष । सखिऽभ्यः । हविषि । स्वधाऽवः । स्वयम् । यजस्व । तन्वम् । वृधानः ॥ १०.८१.५
ऋग्वेद - मण्डल » 10; सूक्त » 81; मन्त्र » 5
अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 5
अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 5
पदार्थः -
(विश्वकर्मन्) हे विश्वरचयितः परमेश्वर ! (ते धामानि) तव व्याप्तुं योग्यानि मुख्यस्थानानि (या परमाणि) यानि खलूच्चानि द्युलोकगतानि (सा मध्यमा) यानि ह्यन्तरिक्षगतानि (उत) अपि च (या-अवमानि) यानि पृथिवीलोकसमाविष्टानि सन्ति (इमा सखिभ्यः शिक्ष) इमानि खल्वस्मभ्यं समानधर्मिभ्यो ज्ञानवद्भ्यः सूपासकेभ्यो ज्ञानद्वारा प्रयच्छ-अन्तरे स्थापय (स्वधावः) हे अन्नवन् यद्वा रसमय परमात्मन् ! “स्वधा अन्ननाम” [निघ० २।७] “स्वधायै त्वेति रसाय त्वेत्येवैतदाह” [श० ५।४।३।७] (तन्वं वृधानः) अस्मच्छरीरं वर्धयमानो वर्धनहेतो: (हविषि स्वयं यजस्व) अदननिमित्तं यद्वाऽन्नमत्र “व्यत्येयन सप्तमी” स्वयं प्रयच्छ ॥५॥