ऋग्वेद - मण्डल 10/ सूक्त 81/ मन्त्र 4
ऋषिः - विश्वकर्मा भौवनः
देवता - विश्वकर्मा
छन्दः - स्वराट्त्रिष्टुप्
स्वरः - धैवतः
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥
स्वर सहित पद पाठकिम् । स्वि॒त् । वन॑म् । कः । ऊँ॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः । मनी॑षिणः । मन॑सा । पृ॒च्छत॑ । इत् । ऊँ॒ इति॑ । तत् । यत् । अ॒धि॒ऽअति॑ष्ठत् । भुव॑नानि । धा॒रय॑न् ॥
स्वर रहित मन्त्र
किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदु तद्यदध्यतिष्ठद्भुवनानि धारयन् ॥
स्वर रहित पद पाठकिम् । स्वित् । वनम् । कः । ऊँ इति । सः । वृक्षः । आस । यतः । द्यावापृथिवी इति । निःऽततक्षुः । मनीषिणः । मनसा । पृच्छत । इत् । ऊँ इति । तत् । यत् । अधिऽअतिष्ठत् । भुवनानि । धारयन् ॥ १०.८१.४
ऋग्वेद - मण्डल » 10; सूक्त » 81; मन्त्र » 4
अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 4
अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 4
पदार्थः -
(किं स्वित्-वनं कः-उ सः-वृक्षः-आस) किं हि तद्वनं कश्च हि स वृक्षोऽस्ति (यतः) यस्मात् (द्यावापृथिवी निष्टतक्षुः) द्यावापृथिवीमयं जगत् खलु नियमेन तक्षक इव करोति परमात्मा “ततक्षुः-चक्रुः” [निरु० ६।२७] “व्यत्ययेन बहुवचनम्” (मनीषिणः-मनसा पृच्छत-इत्-उ) हे प्रज्ञावन्तो विद्वान्सः ! यूयं मनसा पृच्छत-विचारयत ह्येव (तत्-यत्-भुवनानि धारयन्-अध्यतिष्ठत्) तदपि विचारयत यत् पुनर्लोकलोकान्तराणि धारयन् तदुपरि खल्वधितिष्ठति ॥४॥