Loading...
ऋग्वेद मण्डल - 10 के सूक्त 83 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 83/ मन्त्र 1
    ऋषिः - मन्युस्तापसः देवता - मन्युः छन्दः - विराड्जगती स्वरः - निषादः

    यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओज॑: पुष्यति॒ विश्व॑मानु॒षक् । सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥

    स्वर सहित पद पाठ

    यः । ते॒ । म॒न्यो॒ इति॑ । अवि॑धत् । व॒ज्र॒ । सा॒य॒क॒ । सहः॑ । ओजः॑ । पु॒ष्य॒ति॒ । विश्व॑म् । आ॒नु॒षक् । सा॒ह्याम॑ । दास॑म् । आर्य॑म् । त्वया॑ । यु॒जा । सहः॑ऽकृतेन । सह॑सा । सह॑स्वता ॥


    स्वर रहित मन्त्र

    यस्ते मन्योऽविधद्वज्र सायक सह ओज: पुष्यति विश्वमानुषक् । साह्याम दासमार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥

    स्वर रहित पद पाठ

    यः । ते । मन्यो इति । अविधत् । वज्र । सायक । सहः । ओजः । पुष्यति । विश्वम् । आनुषक् । साह्याम । दासम् । आर्यम् । त्वया । युजा । सहःऽकृतेन । सहसा । सहस्वता ॥ १०.८३.१

    ऋग्वेद - मण्डल » 10; सूक्त » 83; मन्त्र » 1
    अष्टक » 8; अध्याय » 3; वर्ग » 18; मन्त्र » 1

    पदार्थः -
    (मन्यो) हे स्वात्मतेजः ! अन्यान् अस्माकं प्रभावं मानयितः “मन्युर्मन्यतेर्दीप्तिकर्मणः” [निरु० १०।२९] (वज्र सायक) वज्ररूपकामादिदोषाणामन्तकर ! (यः-ते-अविधत्) यस्तुभ्यं परिचरति सद्भावं प्रदर्शयति (सह-ओजः) यो मन्युरोजसात्मबलेन सह (विश्वम्-आनुषक् पुष्यति) सर्वमनुषक्तं प्रासङ्गिकं कर्म पोषयति खल्वनुकूलं फलं प्रयच्छति (त्वया सहस्कृतेन) त्वया बलकृतेन-बलसम्पादकेन (सहस्वता सहसा) बलवतान्येषां बलं सहमानेन (युजा) योजकेन-सहायकेन सह (दासम्-आर्यम् साह्याम) क्षयकरन्तथार्यं-श्रेष्ठं कृपाकरं च जनं सहामहे-न दुःखं प्राप्नुमो न मोहं गच्छामः ॥१॥

    इस भाष्य को एडिट करें
    Top