ऋग्वेद - मण्डल 10/ सूक्त 83/ मन्त्र 2
म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः । म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषा॑: ॥
स्वर सहित पद पाठम॒न्युः । इन्द्रः॑ । म॒न्युः । ए॒व । आ॒स॒ । दे॒वः । म॒न्युः । होता॑ । वरु॑णः । जा॒तऽवे॑दाः । म॒न्युम् । विशः॑ । ई॒ळ॒ते॒ । मानु॑षीः । याः । पा॒हि । नः॒ । म॒न्यो॒ इति॑ । तप॑सा । स॒ऽजोषाः॑ ॥
स्वर रहित मन्त्र
मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः । मन्युं विश ईळते मानुषीर्याः पाहि नो मन्यो तपसा सजोषा: ॥
स्वर रहित पद पाठमन्युः । इन्द्रः । मन्युः । एव । आस । देवः । मन्युः । होता । वरुणः । जातऽवेदाः । मन्युम् । विशः । ईळते । मानुषीः । याः । पाहि । नः । मन्यो इति । तपसा । सऽजोषाः ॥ १०.८३.२
ऋग्वेद - मण्डल » 10; सूक्त » 83; मन्त्र » 2
अष्टक » 8; अध्याय » 3; वर्ग » 18; मन्त्र » 2
अष्टक » 8; अध्याय » 3; वर्ग » 18; मन्त्र » 2
पदार्थः -
(मन्युः-इन्द्रः) आत्मप्रभावो हि खल्विन्द्रो राजा विद्युद्वा (मन्युः-एव देवः-आस) आत्मप्रभावो हि देवोऽस्ति (मन्युः-होता वरुणः-जातवेदाः) आत्मप्रभावो हि यजमानो वरणीय ऋत्विग् जातप्रज्ञानो ब्रह्मास्ति (मानुषीः-विशः-मन्युम्-ईळते) मनुष्यप्रजाः खल्वात्मप्रभावं स्तुवन्ति (मन्यो तपसा नः सजोषाः पाहि) हे आत्मप्रभाव ! अस्मान् समानसहयोगी भूत्वा पालय ॥२॥