Loading...
ऋग्वेद मण्डल - 10 के सूक्त 86 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 86/ मन्त्र 1
    ऋषिः - वृषाकपिरैन्द्र इन्द्राणीन्द्रश्च देवता - वरुणः छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    वि हि सोतो॒रसृ॑क्षत॒ नेन्द्रं॑ दे॒वम॑मंसत । यत्राम॑दद्वृ॒षाक॑पिर॒र्यः पु॒ष्टेषु॒ मत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    वि । हि । सोतोः॑ । असृ॑क्षत । न । इन्द्र॑म् । दे॒वम् । अ॒मं॒स॒त॒ । यत्र॑ । अम॑दत् । वृ॒षाक॑पिः । अ॒र्यः । पु॒ष्टेषु॑ । मत्ऽस॑खा । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥


    स्वर रहित मन्त्र

    वि हि सोतोरसृक्षत नेन्द्रं देवममंसत । यत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    वि । हि । सोतोः । असृक्षत । न । इन्द्रम् । देवम् । अमंसत । यत्र । अमदत् । वृषाकपिः । अर्यः । पुष्टेषु । मत्ऽसखा । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥ १०.८६.१

    ऋग्वेद - मण्डल » 10; सूक्त » 86; मन्त्र » 1
    अष्टक » 8; अध्याय » 4; वर्ग » 1; मन्त्र » 1

    पदार्थः -
    वक्तव्यम्−अयं मन्त्रो निरुक्ते आगतः, तत्र सूर्यकिरणानां व्यवहारो दर्शितः “अथैषादित्यरश्मीनाम्-वि हि सोतोः” [निरु० १३।४] तथैवात्र व्याख्यायते। पूर्णसूक्तस्य विशिष्टं विस्तृतं विवरणं मया विरचिते “वैदिकज्योतिषशास्त्र” नामके पुस्तके द्रष्टव्यम्। (सोतोः-वि असृक्षत) विश्वं सोतुं प्रकाशयितुं रश्मयो यदा विसृष्टाः खलु (इन्द्रं देवं न-अमंसत) ते रश्मयः-इन्द्रमुत्तरध्रुवं स्वदेवं प्रकाशकं नामन्यन्त (यत्र पृष्टेषु-अर्यः-वृषाकपिः-अमदत्) येषु सम्यक् प्रकाशमानेषु रश्मिषु तेषां स्वामी सन् वृषाकपिः सूर्यः “रश्मिभिरभिप्रकम्पयन्नेति तद्वृषाकपिः” [निरु० १२।२७] स हर्षितः प्रकाशितोऽभवत् (मत्सखा-इन्द्रः-विश्वस्मात्-उत्तरः) मम सखा-पतिभूत उत्तरध्रुवो विश्वत उत्तरो वर्तते, इत्युक्तिरिन्द्राण्या व्योमकक्षायाः “माधवभट्टास्तु-वि हि सोतोरित्येषर्गिन्द्राण्या वाक्यमिति मन्यन्ते” [सायणः] ॥१॥

    इस भाष्य को एडिट करें
    Top