ऋग्वेद - मण्डल 10/ सूक्त 85/ मन्त्र 47
सम॑ञ्जन्तु॒ विश्वे॑ दे॒वाः समापो॒ हृद॑यानि नौ । सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दधातु नौ ॥
स्वर सहित पद पाठसम् । अ॒ञ्ज॒न्तु॒ । विश्वे॑ । दे॒वाः । सम् । आपः॑ । हृद॑यानि । नौ॒ । सम् । मा॒त॒रिश्वा॑ । सम् । धा॒ता । सम् । ऊँ॒ इति॑ । देष्ट्री॑ । द॒धा॒तु॒ । नौ॒ ॥
स्वर रहित मन्त्र
समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ । सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ ॥
स्वर रहित पद पाठसम् । अञ्जन्तु । विश्वे । देवाः । सम् । आपः । हृदयानि । नौ । सम् । मातरिश्वा । सम् । धाता । सम् । ऊँ इति । देष्ट्री । दधातु । नौ ॥ १०.८५.४७
ऋग्वेद - मण्डल » 10; सूक्त » 85; मन्त्र » 47
अष्टक » 8; अध्याय » 3; वर्ग » 28; मन्त्र » 7
अष्टक » 8; अध्याय » 3; वर्ग » 28; मन्त्र » 7
पदार्थः -
(विश्वेदेवाः-नौ हृदयानि) सर्वे विद्वांसः प्राणा वा “प्राणा वै विश्वेदेवाः” [श० १४।२।२।२७] आवयोर्वधूवरयोर्हृदयानि-मनोबुद्धिचित्ताहङ्कारनामकान्तःकरणानि “हृदयम्-अन्तःकरणम्” [यजु० ११।३९ दयानन्दः] (समञ्जन्तु) सङ्गमयन्तु (आपः सम्) आप्ता जनाः “मनुष्या वा आपश्चन्द्राः” [श० ७।३।१।२०] आप्ता व्याप्ता शरीररसाः सङ्गमयन्तु (मातरिश्वा सम्) मातेव जीवनदाता परमात्मा प्राणवायुर्वा सङ्गमयन्तु (धाता देष्ट्री नौ-उ-सम्) आवयोर्भार्यापत्योर्धारयिता अन्नज्ञानजीवनदाता वृद्धो वंश्यः “देष्ट्रं दान यस्यास्ति स देष्ट्री” “अत इनिठनौ” [अष्टा० ५।२।११५] इति ‘इनि’ प्रत्ययो मतुबर्थीयः सङ्गमयतु ॥४७॥