ऋग्वेद - मण्डल 10/ सूक्त 85/ मन्त्र 46
स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी॑ श्व॒श्र्वां भ॑व । नना॑न्दरि स॒म्राज्ञी॑ भव स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ॥
स्वर सहित पद पाठस॒म्ऽराज्ञी॑ । श्वशु॑रे । भ॒व॒ । स॒म्ऽराज्ञी॑ । श्व॒श्र्वाम् । भ॒व॒ । नना॑न्दरि । स॒म्ऽराज्ञी॑ । भ॒व॒ । स॒म्ऽराज्ञी॑ । अधि॑ । दे॒वृषु॑ ॥
स्वर रहित मन्त्र
सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव । ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥
स्वर रहित पद पाठसम्ऽराज्ञी । श्वशुरे । भव । सम्ऽराज्ञी । श्वश्र्वाम् । भव । ननान्दरि । सम्ऽराज्ञी । भव । सम्ऽराज्ञी । अधि । देवृषु ॥ १०.८५.४६
ऋग्वेद - मण्डल » 10; सूक्त » 85; मन्त्र » 46
अष्टक » 8; अध्याय » 3; वर्ग » 28; मन्त्र » 6
अष्टक » 8; अध्याय » 3; वर्ग » 28; मन्त्र » 6
पदार्थः -
(श्वशुरे सम्राज्ञी भव) हे वधु ! त्वं श्वशुरे मम पितरि तदन्तरे स्वव्यवहारेण सम्राज्ञीव सम्यग्राजमाना भव (श्वश्र्वां सम्राज्ञी भव) मम मातरि-मातुरन्तःकरणेऽपि सम्राज्ञीव विराजमाना भव (ननान्दरि सम्राज्ञी भव) मम स्वसरि स्वसुरन्तरे सम्राज्ञीव राजमाना भव (देवृषु-अधि सम्राज्ञी) मम भ्रातृषु खल्वपि सम्राज्ञीव राजमाना भव ॥४६॥