ऋग्वेद - मण्डल 10/ सूक्त 90/ मन्त्र 2
पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य॑म् । उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥
स्वर सहित पद पाठपुरु॑षः । ए॒व । इ॒दम् । सर्व॑म् । यत् । भू॒तम् । यत् । च॒ । भव्य॑म् । उ॒त । अ॒मृ॒त॒ऽत्वस्य॑ । ईशा॑नः । यत् । अन्ने॑न । अ॒ति॒ऽरोह॑ति ॥
स्वर रहित मन्त्र
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥
स्वर रहित पद पाठपुरुषः । एव । इदम् । सर्वम् । यत् । भूतम् । यत् । च । भव्यम् । उत । अमृतऽत्वस्य । ईशानः । यत् । अन्नेन । अतिऽरोहति ॥ १०.९०.२
ऋग्वेद - मण्डल » 10; सूक्त » 90; मन्त्र » 2
अष्टक » 8; अध्याय » 4; वर्ग » 17; मन्त्र » 2
अष्टक » 8; अध्याय » 4; वर्ग » 17; मन्त्र » 2
पदार्थः -
(पुरुषः-एव) परमपुरुषः परमात्मैव (अमृतत्वस्य-ईशानः) मोक्षस्य स्वामी तथाऽधिष्ठाताऽस्ति “अमृतत्वस्यापि मोक्षस्यापि-ईशानः” [यजुः उव्वटः] (उत) अपि च (इदं सर्वं यत्-भूतं यत्-च भव्यम्) एतत् सर्वं यद् भूतं गतं यच्च भवितव्यं जगत् तथा (यत्-अन्नेन-अतिरोहति) यच्च भोजनेन वर्धते “जीवजातमन्नेनातिरोहति-उत्पद्यते तस्य सर्वस्य चैवेशानः” [यजु० महीधरः] तस्यापि परमपुरुषः परमात्मा स्वामी ह्यस्ति ॥२॥