Loading...
ऋग्वेद मण्डल - 10 के सूक्त 90 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 90/ मन्त्र 1
    ऋषिः - नारायणः देवता - पुरुषः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ॥

    स्वर सहित पद पाठ

    स॒हस्र॑ऽशीर्षा । पुरु॑षः । स॒ह॒स्र॒ऽअ॒क्षः । स॒हस्र॑ऽपात् । सः । भूमि॑म् । विश्वतः॑ । वृ॒त्वा । अति॑ । अ॒ति॒ष्ठ॒त् । द॒श॒ऽअ॒ङ्गु॒लम् ॥


    स्वर रहित मन्त्र

    सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥

    स्वर रहित पद पाठ

    सहस्रऽशीर्षा । पुरुषः । सहस्रऽअक्षः । सहस्रऽपात् । सः । भूमिम् । विश्वतः । वृत्वा । अति । अतिष्ठत् । दशऽअङ्गुलम् ॥ १०.९०.१

    ऋग्वेद - मण्डल » 10; सूक्त » 90; मन्त्र » 1
    अष्टक » 8; अध्याय » 4; वर्ग » 17; मन्त्र » 1

    पदार्थः -
    (पुरुषः) विश्वस्मिन् जगति पूरणः परमात्मा (सहस्रशीर्षा) असंख्यातशिरस्कोऽनन्तज्ञानशक्तिमान् (सहस्राक्षः) असंख्यात-चक्षुष्मान्-अनन्तदर्शनशक्तिमान् (सहस्रपात्) असंख्यातगतिको विभुगतिमान् (सः) स खलु (भूमिं-विश्वतः-वृत्वा) भुवनं ब्रह्माण्डं सर्वतो व्याप्य (दशाङ्गुलम्-अत्यतिष्ठत्) दशभिरङ्गुलिभिर्मातव्यं स्थूलसूक्ष्मभूतदशकान्वितं यद्वा पादमात्रदशाङ्गुलपरिमितं ब्रह्माण्डं यथोक्तम्−“पादोऽस्य विश्वा भूतानि” तदतिक्रम्यातिष्ठद् वर्तमानोऽस्ति ॥१॥

    इस भाष्य को एडिट करें
    Top