ऋग्वेद - मण्डल 10/ सूक्त 91/ मन्त्र 1
सं जा॑गृ॒वद्भि॒र्जर॑माण इध्यते॒ दमे॒ दमू॑ना इ॒षय॑न्नि॒ळस्प॒दे । विश्व॑स्य॒ होता॑ ह॒विषो॒ वरे॑ण्यो वि॒भुर्वि॒भावा॑ सु॒षखा॑ सखीय॒ते ॥
स्वर सहित पद पाठसम् । जा॒गृ॒वत्ऽभिः । जर॑माणः । इ॒द्य॒ते॒ । दमे॑ । दमू॑नाः । इ॒षय॑न् । इ॒ळः । प॒दे । विश्व॑स्य । होता॑ । ह॒विषः॑ । वरे॑ण्यः । वि॒ऽभुः । वि॒भाऽवा॑ । सु॒ऽसखा॑ । स॒खि॒ऽय॒ते ॥
स्वर रहित मन्त्र
सं जागृवद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस्पदे । विश्वस्य होता हविषो वरेण्यो विभुर्विभावा सुषखा सखीयते ॥
स्वर रहित पद पाठसम् । जागृवत्ऽभिः । जरमाणः । इद्यते । दमे । दमूनाः । इषयन् । इळः । पदे । विश्वस्य । होता । हविषः । वरेण्यः । विऽभुः । विभाऽवा । सुऽसखा । सखिऽयते ॥ १०.९१.१
ऋग्वेद - मण्डल » 10; सूक्त » 91; मन्त्र » 1
अष्टक » 8; अध्याय » 4; वर्ग » 20; मन्त्र » 1
अष्टक » 8; अध्याय » 4; वर्ग » 20; मन्त्र » 1
विषयः - अत्र सूक्ते परमेश्वरो जीवेभ्यो जगद्रचयति प्रलये स्वस्मिन् विलीनीकरोति, ये च तस्योपासकाः सन्ति, तैः सह सख्यं सम्पाद्य तेभ्यो मोक्षं प्रयच्छतीति प्रधानविषयाः सन्ति।
पदार्थः -
(विश्वस्य हविषः-होता) जगद्रूपस्य हविर्भूतस्य प्रलये स्वान्तरे ग्रहीता “अत्ता चराचरग्रहणात्” [वेदान्तः] (वरेण्यः) वर्तुमर्हुः (विभावा) विशेषेण भानवान्-दीप्तिमान् “विभावा विशेषेण भानवान्” [ऋ० ५।१।९ दयानन्दः] (विभुः) व्यापकोऽग्निरग्र-णायकः परमात्मा (सखीयते सुसखा) आत्मनः सखायमिच्छते स्तोत्रे-उपासकाय शोभनसखा (दमूनाः) दानमनाः स्वानन्दं दातुं स्वभावो यस्य तथाभूतः “दमूनाः-दानमनाः” [निरु० ४।४] (जागृवद्भिः-जरमाणः) जागरूकैर्विवेकिभिर्जनैः स्तूयमानः (इळः-पदे दमे) स्तुतिवाचः स्थाने हृद्गृहे (इषयन्-सम् इध्यते) स्तोतॄन् प्रेरयन् सम्यक् प्रकाशितो भवति-साक्षाद् भवति ॥१॥