Loading...
ऋग्वेद मण्डल - 10 के सूक्त 91 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 91/ मन्त्र 2
    ऋषिः - अरुणो वैतहव्यः देवता - अग्निः छन्दः - विराड्जगती स्वरः - निषादः

    स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने॑वने शिश्रिये तक्व॒वीरि॑व । जनं॑जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे॑ति वि॒श्यो॒३॒॑ विशं॑विशम् ॥

    स्वर सहित पद पाठ

    सः । द॒र्श॒त॒ऽश्रीः । अति॑थिः । गृ॒हेऽगृ॑हे । वने॑ऽवने । शि॒श्र॒िये॒ । त॒क्व॒वीःऽइ॑व । जन॑म्ऽजनम् । जन्यः॑ । न । अति॑ । म॒न्य॒ते॒ । विशः॑ । आ । क्षे॒ति॒ । वि॒श्यः॑ । विश॑म्ऽविशम् ॥


    स्वर रहित मन्त्र

    स दर्शतश्रीरतिथिर्गृहेगृहे वनेवने शिश्रिये तक्ववीरिव । जनंजनं जन्यो नाति मन्यते विश आ क्षेति विश्यो३ विशंविशम् ॥

    स्वर रहित पद पाठ

    सः । दर्शतऽश्रीः । अतिथिः । गृहेऽगृहे । वनेऽवने । शिश्रिये । तक्ववीःऽइव । जनम्ऽजनम् । जन्यः । न । अति । मन्यते । विशः । आ । क्षेति । विश्यः । विशम्ऽविशम् ॥ १०.९१.२

    ऋग्वेद - मण्डल » 10; सूक्त » 91; मन्त्र » 2
    अष्टक » 8; अध्याय » 4; वर्ग » 20; मन्त्र » 2

    पदार्थः -
    (सः) स परमात्मा (दर्शतश्रीः) दर्शनीयशोभावान् (अतिथिः) पूज्यः “अतिथिः पूजनीयः” [ऋ० १।१२८।४-दयानन्दः] (गृहे गृहे वने वने शिश्रिये) प्रत्येकजनस्य हृद्गृहे सम्भजनसाधनेऽन्तःकरणे श्रितोऽस्ति (तक्ववीः-इव) तकति-गच्छतीति तक्वा वायुः “तकति गतिकर्मा” [निघ० २।१४] तक्वानं गतिमन्तं वायुं व्याप्नोतीति तक्ववीः-आकाशः, आकाश इव सर्वव्यापकः (जनं जनं जन्यः) जनं जनं प्रति जनहितः (न-अति मन्यते) न हि स उपेक्षते (विशः-आ क्षेति) प्रजाः प्रति निवसति (विशं विशं विश्यः) विशं विशं प्रति प्रजां प्रजां प्रति प्रजाहितः स परमात्मा स्तोतव्यः ॥२॥

    इस भाष्य को एडिट करें
    Top