ऋग्वेद - मण्डल 10/ सूक्त 91/ मन्त्र 3
सु॒दक्षो॒ दक्षै॒: क्रतु॑नासि सु॒क्रतु॒रग्ने॑ क॒विः काव्ये॑नासि विश्व॒वित् । वसु॒र्वसू॑नां क्षयसि॒ त्वमेक॒ इद्द्यावा॑ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ॥
स्वर सहित पद पाठसु॒ऽदक्षः॑ । दक्षः॑ । क्रतु॑ना । अ॒सि॒ । सु॒ऽक्रतुः॑ । अग्ने॑ । क॒विः । काव्ये॑न । अ॒सि॒ । वि॒श्व॒ऽवित् । वसुः॑ । वसू॑नाम् । क्ष॒य॒सि॒ । त्वम् । एकः॑ । इत् । द्यावा॑ । च॒ । यानि॑ । पृ॒थि॒वी इति॑ । च॒ । पुष्य॑तः ॥
स्वर रहित मन्त्र
सुदक्षो दक्षै: क्रतुनासि सुक्रतुरग्ने कविः काव्येनासि विश्ववित् । वसुर्वसूनां क्षयसि त्वमेक इद्द्यावा च यानि पृथिवी च पुष्यतः ॥
स्वर रहित पद पाठसुऽदक्षः । दक्षः । क्रतुना । असि । सुऽक्रतुः । अग्ने । कविः । काव्येन । असि । विश्वऽवित् । वसुः । वसूनाम् । क्षयसि । त्वम् । एकः । इत् । द्यावा । च । यानि । पृथिवी इति । च । पुष्यतः ॥ १०.९१.३
ऋग्वेद - मण्डल » 10; सूक्त » 91; मन्त्र » 3
अष्टक » 8; अध्याय » 4; वर्ग » 20; मन्त्र » 3
अष्टक » 8; अध्याय » 4; वर्ग » 20; मन्त्र » 3
पदार्थः -
(अग्ने) हे परमात्मन् ! त्वं (दक्षैः-सुदक्षः) स्वबलैः-सुबलवान् (क्रतुना सुक्रतुः) स्वकर्मणा सुकर्मवान् (काव्येन कविः) स्वकौशलेन-जगद्रचनकलाकौशलेन कविः कलाकारः (विश्ववित्-असि) विश्ववेत्ताऽसि (वसूनां वसुः) वासयितॄणां धनानां योगेन त्वं वासयिता धनविशेषैरसि (त्वम्-एकः-इत्) त्वमेक एव (यानि द्यावापृथिवी च पुष्यतः) यानि वसूनि भोग्यधनानि द्यावापृथिव्यौ पुष्यतः सम्पादयतः तानि खल्वपि त्वमेव पुष्यसि सम्पादयसीत्यर्थः ॥३॥