ऋग्वेद - मण्डल 10/ सूक्त 91/ मन्त्र 4
प्र॒जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॒मिळा॑यास्प॒दे घृ॒तव॑न्त॒मास॑दः । आ ते॑ चिकित्र उ॒षसा॑मि॒वेत॑योऽरे॒पस॒: सूर्य॑स्येव र॒श्मय॑: ॥
स्वर सहित पद पाठप्र॒ऽजा॒नन् । अ॒ग्ने॒ । तव॑ । योनि॑म् । ऋ॒त्विय॑म् । इळा॑याः । प॒दे । घृ॒तऽव॑न्तम् । आ । अ॒स॒दः॒ । आ । ते॒ । चि॒कि॒त्रे॒ । उ॒षसा॑म्ऽइ॒व । एत॑यः । अ॒रे॒पसः॑ । सूर्य॑स्यऽइव । र॒श्मयः॑ ॥
स्वर रहित मन्त्र
प्रजानन्नग्ने तव योनिमृत्वियमिळायास्पदे घृतवन्तमासदः । आ ते चिकित्र उषसामिवेतयोऽरेपस: सूर्यस्येव रश्मय: ॥
स्वर रहित पद पाठप्रऽजानन् । अग्ने । तव । योनिम् । ऋत्वियम् । इळायाः । पदे । घृतऽवन्तम् । आ । असदः । आ । ते । चिकित्रे । उषसाम्ऽइव । एतयः । अरेपसः । सूर्यस्यऽइव । रश्मयः ॥ १०.९१.४
ऋग्वेद - मण्डल » 10; सूक्त » 91; मन्त्र » 4
अष्टक » 8; अध्याय » 4; वर्ग » 20; मन्त्र » 4
अष्टक » 8; अध्याय » 4; वर्ग » 20; मन्त्र » 4
पदार्थः -
(अग्ने) हे अग्रणायक परमात्मन् ! (इळायाः-पदे) स्तुतिवाचः पदे प्राप्तव्ये प्रसङ्गे (तव-ऋत्वियं योनिम्) स्वकीयं यथासमयं गृहं स्तोतृहृदयम् “योनिः गृहनाम” [निघं० ३।४] (घृतवन्तम्) आर्द्रहावभाववन्तम् (प्रजानन्) प्रकृष्टं जानन् सन् (आ असदः) आसीद (ते-एतयः) तव प्रापणप्रतीतयः (उषसाम्-इव) उषसः-इव “व्यत्ययेन प्रथमास्थाने षष्ठी छान्दसी” (सूर्यस्य-अरेपसः-रश्मयः-इव-आ चिकित्रे) सूर्यस्य निर्दोषाः प्रकाशमाना रश्मय इव प्रतीयन्ते ॥४॥