ऋग्वेद - मण्डल 10/ सूक्त 91/ मन्त्र 5
तव॒ श्रियो॑ व॒र्ष्य॑स्येव वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तव॑: । यदोष॑धीर॒भिसृ॑ष्टो॒ वना॑नि च॒ परि॑ स्व॒यं चि॑नु॒षे अन्न॑मा॒स्ये॑ ॥
स्वर सहित पद पाठतव॑ । श्रियः॑ । व॒र्ष्य॑स्यऽइव । वि॒ऽद्युतः॑ । चि॒त्राः । चि॒कि॒त्रे॒ । उ॒षसा॑म् । न । के॒तवः॑ । यत् । ओष॑धीः । अ॒भिऽसृ॑ष्टः । वना॑नि । च॒ । परि॑ । स्व॒यम् । चि॒नु॒षे । अन्न॑म् । आ॒स्ये॑ ॥
स्वर रहित मन्त्र
तव श्रियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसां न केतव: । यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमास्ये ॥
स्वर रहित पद पाठतव । श्रियः । वर्ष्यस्यऽइव । विऽद्युतः । चित्राः । चिकित्रे । उषसाम् । न । केतवः । यत् । ओषधीः । अभिऽसृष्टः । वनानि । च । परि । स्वयम् । चिनुषे । अन्नम् । आस्ये ॥ १०.९१.५
ऋग्वेद - मण्डल » 10; सूक्त » 91; मन्त्र » 5
अष्टक » 8; अध्याय » 4; वर्ग » 20; मन्त्र » 5
अष्टक » 8; अध्याय » 4; वर्ग » 20; मन्त्र » 5
पदार्थः -
(तव) हे अग्ने परमात्मन् ! तव (श्रियः) शोभाः-दर्शनाभासः (वर्ष्यस्य-इव विद्युतः-चित्राः) वर्षितुं योग्यस्य मेघस्य विद्युत इव चित्रा आश्चर्यमय्यः प्रतीयन्ते (उषसां केतवः-न) यद्वा-प्रातस्तनीनामुषसां भासा रश्मिधारा-इव प्रतीयन्ते (यत्-ओषधीः-वनानि-च) यदा-ओषधीन् विदुषः प्रति “ओषधयः-दोषं धयन्तीति) [निरु० ९।२७] “ओषधेः-ओषधिवद् वर्तमान विद्वन्” [यजुः १२।१०० दयानन्दः] तथा सम्भजनीयान्यन्तःकरणानि (अभि-सृष्टः) प्राप्तः सन् (स्वयं परि चिनुषे) त्वं स्वयं परिचिनोषि-संवृणोषि तर्हि (आस्ये-अन्नम्) यथा कश्चिददनीयं मुखे संवृणोति संरक्षति ॥५॥