ऋग्वेद - मण्डल 10/ सूक्त 93/ मन्त्र 2
ऋषिः - तान्वः पार्थ्यः
देवता - विश्वेदेवा:
छन्दः - भुरिगार्च्यनुष्टुप्
स्वरः - गान्धारः
य॒ज्ञेय॑ज्ञे॒ स मर्त्यो॑ दे॒वान्त्स॑पर्यति । यः सु॒म्नैर्दी॑र्घ॒श्रुत्त॑म आ॒विवा॑सत्येनान् ॥
स्वर सहित पद पाठय॒ज्ञेऽय॑ज्ञे । सः । मर्त्यः॑ । दे॒वान् । स॒प॒र्य॒ति॒ । यः । सु॒म्नैः । दी॒र्घ॒श्रुत्ऽत॑मः । आ॒ऽविवा॑साति । ए॒ना॒न् ॥
स्वर रहित मन्त्र
यज्ञेयज्ञे स मर्त्यो देवान्त्सपर्यति । यः सुम्नैर्दीर्घश्रुत्तम आविवासत्येनान् ॥
स्वर रहित पद पाठयज्ञेऽयज्ञे । सः । मर्त्यः । देवान् । सपर्यति । यः । सुम्नैः । दीर्घश्रुत्ऽतमः । आऽविवासाति । एनान् ॥ १०.९३.२
ऋग्वेद - मण्डल » 10; सूक्त » 93; मन्त्र » 2
अष्टक » 8; अध्याय » 4; वर्ग » 26; मन्त्र » 2
अष्टक » 8; अध्याय » 4; वर्ग » 26; मन्त्र » 2
पदार्थः -
(यज्ञे यज्ञे) प्रत्येकस्मिन् यज्ञे (सः-मर्त्यः-देवान् सपर्यति) स हि मनुष्यो दिव्यान् वाय्वादीन् पदार्थान् परिचरति स्वानुकूली करोति (यः) यः खलु (दीर्घश्रुत्तमः) दीर्घकालातिशयितशास्त्रश्रवणकृत् (सुम्नैः) सुखैः सम्पन्नो भवति (एनान्-आविवासति) एतान् समन्तात् परिचरति परित-उपयुक्तान् करोति ॥२॥