ऋग्वेद - मण्डल 10/ सूक्त 93/ मन्त्र 1
ऋषिः - तान्वः पार्थ्यः
देवता - विश्वेदेवा:
छन्दः - विराड्पङ्क्ति
स्वरः - पञ्चमः
महि॑ द्यावापृथिवी भूतमु॒र्वी नारी॑ य॒ह्वी न रोद॑सी॒ सदं॑ नः । तेभि॑र्नः पातं॒ सह्य॑स ए॒भिर्न॑: पातं शू॒षणि॑ ॥
स्वर सहित पद पाठमहि॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । भू॒त॒म् । उ॒र्वी इति॑ । नारी॒ इति॑ । य॒ह्वी इति॑ । न । रोद॑सी॒ इति॑ । सद॑म् । नः॒ । तेभिः॑ । नः॒ । पा॒त॒म् । सह्य॑सः । ए॒भिः । नः॒ । पा॒त॒म् । शू॒षणि॑ ॥
स्वर रहित मन्त्र
महि द्यावापृथिवी भूतमुर्वी नारी यह्वी न रोदसी सदं नः । तेभिर्नः पातं सह्यस एभिर्न: पातं शूषणि ॥
स्वर रहित पद पाठमहि । द्यावापृथिवी इति । भूतम् । उर्वी इति । नारी इति । यह्वी इति । न । रोदसी इति । सदम् । नः । तेभिः । नः । पातम् । सह्यसः । एभिः । नः । पातम् । शूषणि ॥ १०.९३.१
ऋग्वेद - मण्डल » 10; सूक्त » 93; मन्त्र » 1
अष्टक » 8; अध्याय » 4; वर्ग » 26; मन्त्र » 1
अष्टक » 8; अध्याय » 4; वर्ग » 26; मन्त्र » 1
विषयः - अस्मिन् सूक्तेऽध्यापकोपदेशकाभ्यां ज्ञानं ग्राह्यं परमात्मन उपासना च कार्या, अग्निहोत्रं च स्वास्थ्यलाभाय कर्तव्यमित्यादयो विषयाः सन्ति।
पदार्थः -
(द्यावापृथिवी महि) यज्ञकरणात्-आकाशभूमी महत्त्वपूर्णे “द्यावापृथिवी आकाशभूमी” [यजु० १५।५७ दयानन्दः] (भूतम्) भवतः यज्ञादाकाशो मेघपूर्णो भवति भूमिश्च वृष्टिरूपयज्ञफलेन शस्यपूर्णा भवति, तस्मात् (उर्वी नारी) स्वस्वरूपतो विस्तृते सत्यौ प्राणिनां जीवनस्य नेत्र्यौ च स्तः (यह्वी रोदसी) रोधसी “रोदसी रोधसी” [निरु० ६।१] “रोधः कूलं निरुणद्धि स्रोतः” [निरु० ६।१] तद्वत्यौ नद्याविव “यह्व्यो नद्यः” [निघ० १।१३] (नः सदम्) अस्मभ्यं सुखं वाहिन्यौ सदा भवतः (तेभिः-नः पातम्) तैः-स्वस्वपालकपदार्थैर्मेघैरन्नादिभिश्च सदाऽस्मान् रक्षतः (शूषणि) उत्पन्ने संसारे “शूष प्रसवे” [भ्वादि०] ततः कनिन् औणादिकः “पूषन् इति यथा शूषन् शब्दसाम्यात्” (नः-एभिः सह्यसः-पातम्) अस्मान् एतैः पालकपदार्थैः-अत्यन्ताभिभावितू रोगादेः-पातः ॥१॥