Loading...
ऋग्वेद मण्डल - 10 के सूक्त 92 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 92/ मन्त्र 15
    ऋषिः - शार्यातो मानवः देवता - विश्वेदेवा: छन्दः - जगती स्वरः - निषादः

    रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒ अङ्गि॑रा॒ ग्रावा॑ण ऊ॒र्ध्वा अ॒भि च॑क्षुरध्व॒रम् । येभि॒र्विहा॑या॒ अभ॑वद्विचक्ष॒णः पाथ॑: सु॒मेकं॒ स्वधि॑ति॒र्वन॑न्वति ॥

    स्वर सहित पद पाठ

    रेभ॑त् । अत्र॑ । ज॒नुषा॑ । पूर्वः॑ । अङ्गि॑राः । ग्रावा॑णः । ऊ॒र्ध्वाः॑ । अ॒भि । च॒क्षुः॒ । अ॒ध्व॒रम् । येभिः॑ । विऽहा॑याः । अभ॑वत् । वि॒ऽच॒क्ष॒णः । पाथः॑ । सु॒ऽमेक॑म् । स्वऽधि॑तिः । वन॑न्ऽवति ॥


    स्वर रहित मन्त्र

    रेभदत्र जनुषा पूर्वो अङ्गिरा ग्रावाण ऊर्ध्वा अभि चक्षुरध्वरम् । येभिर्विहाया अभवद्विचक्षणः पाथ: सुमेकं स्वधितिर्वनन्वति ॥

    स्वर रहित पद पाठ

    रेभत् । अत्र । जनुषा । पूर्वः । अङ्गिराः । ग्रावाणः । ऊर्ध्वाः । अभि । चक्षुः । अध्वरम् । येभिः । विऽहायाः । अभवत् । विऽचक्षणः । पाथः । सुऽमेकम् । स्वऽधितिः । वनन्ऽवति ॥ १०.९२.१५

    ऋग्वेद - मण्डल » 10; सूक्त » 92; मन्त्र » 15
    अष्टक » 8; अध्याय » 4; वर्ग » 25; मन्त्र » 5

    पदार्थः -
    (जनुषा पूर्वः-अङ्गिराः) जगतो जन्मक्रियया पूर्व एव (अङ्गेषु जगत्पदार्थेषु रममाणः परमात्मा ‘अङ्गिरा अङ्गेषु रममाणः’ [ऋ० ५।८।४ दयानन्दः] (अत्र) संसारे (रेभत्) परमर्षीन् शब्दयति-उपदिशति (ऊर्ध्वाः-ग्रावाणः) उत्कृष्टाः-विद्वांसः ‘विद्वांसो हि ग्रावाणः’ [श० ३।९।३।१४] (अध्वरम्-अभिचक्षुः) तमविनाशिनं चक्षुरभि, प्रत्यक्षमभिपश्यन्ति (येभिः) यैः प्रशंसितः (विचक्षणः-विहायाः-अभवत्) स सर्वद्रष्टा महान् भवति (स्वधितिः-सुमेकं पाथः वनन्वति) स स्वाधारः सुमेकं सुष्ठु प्रकाशमानम् ‘सुमेकः सुष्ठु प्रकाशमानः’ [ऋ० ४।६।३ दयानन्दः] यद्वा स्वेकम् ‘सुमेकः स्वेकः’ [श० १।७।२।२६] मार्गं सृष्टिकालं वा ‘सुमेकः संवत्सरः स्वेको ह वै’ नामैतद् यत्सुमेक इति’ [श० १।७।२।२६] (वनन्वति) रश्मिवति सूर्ये प्रेरयति ‘वज्रं रश्मिनाम’ [निघ० ३।५३।१५] ॥१५॥

    इस भाष्य को एडिट करें
    Top