ऋग्वेद - मण्डल 10/ सूक्त 94/ मन्त्र 13
ऋषिः - अर्बुदः काद्रवेयः सर्पः
देवता - ग्रावाणः
छन्दः - विराड्जगती
स्वरः - निषादः
तदिद्व॑द॒न्त्यद्र॑यो वि॒मोच॑ने॒ याम॑न्नञ्ज॒स्पा इ॑व॒ घेदु॑प॒ब्दिभि॑: । वप॑न्तो॒ बीज॑मिव धान्या॒कृत॑: पृ॒ञ्चन्ति॒ सोमं॒ न मि॑नन्ति॒ बप्स॑तः ॥
स्वर सहित पद पाठतत् । इत् । व॒द॒न्ति॒ । अद्र॑यः । वि॒ऽमोच॑ने । याम॑न् । अ॒ञ्जः॒पाःऽइ॑व । घ॒ । इत् । उ॒प॒ब्दिऽभिः॑ । वप॑न्तः । बीज॑म्ऽइव । धा॒न्य॒ऽकृतः॑ । पृ॒ञ्चन्ति॑ । सोम॑म् । न । मि॒न॒न्ति॒ । बप्स॑तः ॥
स्वर रहित मन्त्र
तदिद्वदन्त्यद्रयो विमोचने यामन्नञ्जस्पा इव घेदुपब्दिभि: । वपन्तो बीजमिव धान्याकृत: पृञ्चन्ति सोमं न मिनन्ति बप्सतः ॥
स्वर रहित पद पाठतत् । इत् । वदन्ति । अद्रयः । विऽमोचने । यामन् । अञ्जःपाःऽइव । घ । इत् । उपब्दिऽभिः । वपन्तः । बीजम्ऽइव । धान्यऽकृतः । पृञ्चन्ति । सोमम् । न । मिनन्ति । बप्सतः ॥ १०.९४.१३
ऋग्वेद - मण्डल » 10; सूक्त » 94; मन्त्र » 13
अष्टक » 8; अध्याय » 4; वर्ग » 31; मन्त्र » 3
अष्टक » 8; अध्याय » 4; वर्ग » 31; मन्त्र » 3
पदार्थः -
(अद्रयः) मन्त्रप्रवचनकर्त्तारः “अद्रिरसि श्लोककृत्” [काठ० १।५] (विमोचने यामन्) विमोक्षे मार्गे-विमोक्षमार्गनिमित्तमित्यर्थः ‘निमित्तसप्तमी’ (तत्-इत्-वदन्ति) तदेव यथा मोक्षार्थं वक्तव्यं तदेव (वदन्ति) उपदिशन्ति (अञ्जस्पाः-इव घ-इत्-उपब्दिभिः) यथा-अनायासेन रक्षकाः पितृजनाः स्ववाग्भिः संसारमार्गनिमित्त-मुपदिशन्ति, “उपब्दिः-वाङ्नाम” [निघ० १।११] (धान्यकृतः-बीजं वपन्तः-इव) यथा धान्यकाराः कृषका बीजं वपन्तो भूमौ क्षिपन्ति प्ररोहणायाग्रे बहुधान्यप्रापणाय लौकिकसुखलाभाय तद्वत् (सोमं पृञ्चन्ति) शान्तस्वरूपमुत्पादकं परमात्मानं स्वात्मनि संयोजयन्ति (बप्सतः-न मिनन्ति) कर्मफलं भुञ्जानाः न कर्माणि हिंसन्ति, कर्माणि निरन्तरं कुर्वन्ति हि ॥१३॥