ऋग्वेद - मण्डल 10/ सूक्त 95/ मन्त्र 3
ऋषिः - पुरूरवा ऐळः
देवता - उर्वशी
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहि॑: । अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयन्त॒ धुन॑यः ॥
स्वर सहित पद पाठइषुः॑ । न । श्रि॒ये । इ॒षु॒ऽधेः । अ॒स॒ना । गो॒ऽसाः । श॒त॒ऽसाः । न । रंहिः॑ । अ॒वीरे॑ । क्रतौ॑ । वि । द॒वि॒द्यु॒त॒त् । न । उरा॑ । न । मा॒युम् । चि॒त॒य॒न्त॒ । धुन॑यः ॥
स्वर रहित मन्त्र
इषुर्न श्रिय इषुधेरसना गोषाः शतसा न रंहि: । अवीरे क्रतौ वि दविद्युतन्नोरा न मायुं चितयन्त धुनयः ॥
स्वर रहित पद पाठइषुः । न । श्रिये । इषुऽधेः । असना । गोऽसाः । शतऽसाः । न । रंहिः । अवीरे । क्रतौ । वि । दविद्युतत् । न । उरा । न । मायुम् । चितयन्त । धुनयः ॥ १०.९५.३
ऋग्वेद - मण्डल » 10; सूक्त » 95; मन्त्र » 3
अष्टक » 8; अध्याय » 5; वर्ग » 1; मन्त्र » 3
अष्टक » 8; अध्याय » 5; वर्ग » 1; मन्त्र » 3
पदार्थः -
(इषुधेः-असना-इषुः) हे जाये प्रजे वा सतां तव सहाय्येन विना-इषुकोशात् क्षेपणीया खल्विषुः (न श्रिये) न विजयलक्ष्म्यै समर्था भवन्ति (रंहिः-न) न अहं वेगवान् बलवानपि (गोषाः शतसाः) शत्रुभूमेर्भोक्ता बहुधनस्य भोक्ता (अवीरे-उरा क्रतौ) वीरभार्यया वीरप्रजयारहिते विस्तृते यज्ञकर्मणि सङ्ग्रामकर्मणि वा (न विदविद्युतत्) न हि मम वेगो विद्योतते (धुनयः) शत्रूणां कम्पयितारोऽस्माकं सैनिकाः (मायुम्) अस्माकं शब्दमादेशं (न-चिन्तयन्त) न मन्यन्ते ॥३।