ऋग्वेद - मण्डल 10/ सूक्त 98/ मन्त्र 1
ऋषिः - देवापिरार्ष्टिषेणः
देवता - देवाः
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
बृह॑स्पते॒ प्रति॑ मे दे॒वता॑मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा । आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न्त्स प॒र्जन्यं॒ शंत॑नवे वृषाय ॥
स्वर सहित पद पाठबृह॑स्पते । प्रति॑ । मे॒ । दे॒वता॑म् । इ॒हि॒ । मि॒त्रः । वा॒ । यत् । वरु॑णः । वा॒ । अ॒सि॒ । पू॒षा । आ॒दि॒त्यैः । वा॒ । यत् । वसु॑ऽभिः । म॒रुत्वा॑न् । सः । प॒र्जन्य॑म् । शम्ऽत॑नवे । वृ॒ष॒य॒ ॥
स्वर रहित मन्त्र
बृहस्पते प्रति मे देवतामिहि मित्रो वा यद्वरुणो वासि पूषा । आदित्यैर्वा यद्वसुभिर्मरुत्वान्त्स पर्जन्यं शंतनवे वृषाय ॥
स्वर रहित पद पाठबृहस्पते । प्रति । मे । देवताम् । इहि । मित्रः । वा । यत् । वरुणः । वा । असि । पूषा । आदित्यैः । वा । यत् । वसुऽभिः । मरुत्वान् । सः । पर्जन्यम् । शम्ऽतनवे । वृषय ॥ १०.९८.१
ऋग्वेद - मण्डल » 10; सूक्त » 98; मन्त्र » 1
अष्टक » 8; अध्याय » 5; वर्ग » 12; मन्त्र » 1
अष्टक » 8; अध्याय » 5; वर्ग » 12; मन्त्र » 1
विषयः - अत्र सूक्ते राष्ट्रियसुखवृष्टेर्निमित्तीभूतौ विद्यावान् पुरोहितो-ऽन्नवृद्धिकर्ताऽन्नाधिकारी चेति द्वौ स्तः, एवं जलवृष्टेर्निमित्तीभूतौ आकाशीयविद्युदग्निः पृथिवीस्थोष्मा चोभौ स्तस्तयोर्विज्ञानरीत्या साङ्गत्येन वृष्टिः पातनीया। अध्यात्मानन्दवृष्टिः परमात्मनः सङ्गत्या भवतीति चैवमादयो विषयाः सन्ति।
पदार्थः -
एतद्वर्षकामसूक्तम्” [निरु० २।११] इति वृष्टिविज्ञानविषयकं सूक्तम् अत्र वक्तव्यम्− अस्मिन् शन्तनवे शब्दे “शन्तनुः” अग्रिमे द्वितीयमन्त्रे देवापि इति द्वयोराश्रये सूक्तार्थो विद्यते। तौ द्वौ देवापिशन्तनू वृष्टिविज्ञाने खल्वाकाशपृथिव्योर्विद्युद् भौमोष्माणौ वृष्टेर्निमित्तीभूतौ स्तः। आकाशाद् विद्युद् वृष्टिं प्रेरयेत् तदैवौषधिवनस्पतयो जायेरन् तथा च पृथिवीतो भौमोष्मा खल्वोषधिवनस्पतीनां सूक्ष्मं सारभागमुपादायाकाशं प्रत्युद्गमयेत् तदा वृष्टेरागमनं भवेत्, एवं विद्युदूष्माणौ वैदिकनामतो देवापिशन्तनू स्तः। अगस्त्य-संहितानामकस्य पुरातनवैज्ञानिकग्रन्थस्य परिभाषायां मित्रावरुणौ वृष्टेर्निमित्तीभूतौ स्तः “मित्रावरुणौ त्वा वृष्ट्यावताम्” [श० १।८।३।१२] महर्षिभरद्वाजनिर्मितस्य वैमानिकप्रकरणस्य परिभाषायां “द्रवः-द्रवणम् प्राणनम्” चेत्याख्ये जलस्य द्वे शक्ती स्तः। अद्यतने पाश्चात्त्ये विज्ञाने “हाईड्रोजन-आक्सीजन” इति नामतः प्रसिद्धीकृतौ द्वौ वायू स्तः। ययोर्मेलनात् खलु जलं सम्पद्यते एवं वृष्टिविज्ञानं पृथिवीस्थः शन्तनुर्भौमोष्मा वरुणः प्राणनम् “आक्सीजन” इत्येते कार्यकारणभावप्राप्ताः ‘पश्चिमपश्चिमः पूर्वपूर्वस्य कार्यम्’ ‘पूर्वपूर्वः पश्चिमपश्चिमस्य कारणम्’ तत्रैवाकाशस्थो देवापिरभ्रदलान्तर्गतं विद्युत्तत्त्वम् ‘मित्रः-द्रवः’ हाइड्रोजनतत्त्वम् कार्यकारणभावप्राप्ताः “पूर्वपूर्वः पश्चिम-पश्चिमस्य कारणं पश्चिमपश्चिमः पूर्वपूर्वस्य-कार्यम्” आधिभौतिकदृष्ट्या तयोस्तात्पर्यार्थो ग्राह्यः, यत् खलु राष्ट्रस्य शस्त्रास्त्रबलसम्पन्नः शन्तनुरन्नवान् गणः। तद्राष्ट्रस्य विद्यावान् गणो देवापिः। ताभ्यां राष्ट्रे धान्यसिद्ध्या ज्ञानवृद्ध्या सुखवृष्टिर्भवति। अथार्थः क्रियते द्वयोर्मन्त्रयोः−(बृहस्पते) बृहत्या वेदवाचः स्वामिन् परमात्मन् ! गर्जनारूपवाचः स्वामिन् स्तनयित्नो “ऊर्ध्वा दिग्बृहस्पतिरधिपतिः” [अथर्व० ३।२७।६] (मे) मह्यं (देवतां प्रति-इहि) देवताम्प्रतिरूपो भव (मित्रः-वा वरुणः-वा पूषा-असि) त्वं मित्रः प्रेरयिता सञ्चालको वरुणो वरयिता रक्षकः पूषा पोषयिता वा त्वमेवासि (आदित्यैः-वा वसुभिः-मरुत्वान्-सः) त्वमादित्यै रश्मिभिः-आदानगुणैः, वसुभिर्वासकगुणैः मरुद्भिर्युक्तः सन् ता सर्वदेवता-गुणवान्-असि तथा भूतः सन् (शन्तनवे पर्जन्यं वृषाय) शमस्मै तन्वे-अस्तु-इत्याकाङ्क्षिणे राष्ट्रेऽन्नार्थाधिकारिणे मेघं वर्षय। “छन्दसि शायजपि” [अष्टा० ३।१।८४] (देवापे) हे देवानामाप्त्या प्राप्तुं चेष्टया वर्तमान ! पुरोहित ! आकाशीय विद्युदग्ने ! वा (त्वत्-दूतः-अजिरः-देवः-चिकित्वान्) त्वत्तः तव सकाशात् त्वया प्रेरितो दूतो गतिशीलः प्रेरणावान् प्रेरयिता देवो विद्वान् वायुर्वा (माम्-अभि-अगच्छत्) मां प्रत्यागच्छत् (प्रतीचीनः-माम्-प्रति-आ ववृत्स्व) साक्षात् त्वं मां प्रति समन्तात् प्राप्तो भव (ते-आसन्-द्युमतीं वाचं दधामि) तव मुखे दीप्तियुक्तां वाचं वेदवाचं सुख-वृष्टिकरीं यद्वा गर्जनां वृष्टिकरीं दधामि ॥१-२॥