Loading...
ऋग्वेद मण्डल - 10 के सूक्त 97 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 97/ मन्त्र 23
    ऋषिः - भिषगाथर्वणः देवता - औषधीस्तुतिः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः । उप॑स्तिरस्तु॒ सो॒३॒॑ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥

    स्वर सहित पद पाठ

    त्वम् । उ॒त्ऽत॒मा । अ॒सि॒ । ओ॒ष॒धे॒ । तव॑ । वृ॒क्षाः । उप॑स्तयः । उप॑स्तिः । अ॒स्तु॒ । सः । अ॒स्माक॑म् । यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति ॥


    स्वर रहित मन्त्र

    त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः । उपस्तिरस्तु सो३ऽस्माकं यो अस्माँ अभिदासति ॥

    स्वर रहित पद पाठ

    त्वम् । उत्ऽतमा । असि । ओषधे । तव । वृक्षाः । उपस्तयः । उपस्तिः । अस्तु । सः । अस्माकम् । यः । अस्मान् । अभिऽदासति ॥ १०.९७.२३

    ऋग्वेद - मण्डल » 10; सूक्त » 97; मन्त्र » 23
    अष्टक » 8; अध्याय » 5; वर्ग » 11; मन्त्र » 8

    पदार्थः -
    (ओषधे त्वम्-उत्तमा-असि) हे ओषधे ! त्वं श्रेष्ठाऽसि (वृक्षाः-तव-उपस्तयः) वृक्षाः बृहत्तरवस्तव खलूपाश्रयदातारः “उपपूर्वात् स्त्यै सङ्घाते” [भ्वादि०] “धातोरौणादिकः क्विप् सम्प्रसारणं च” (सः-अस्माकम्-उपस्तिः अस्तु) स विद्वान् भिषक् खल्वस्माकमुपाश्रयदाता सङ्गो भवतु (यः-अस्मान्-अभिदासति) योऽस्मान् स्वास्थ्यसुखमभिददाति “दासति दानकर्मा” [निघ० ३।२०] ॥२३॥

    इस भाष्य को एडिट करें
    Top