Loading...
ऋग्वेद मण्डल - 10 के सूक्त 99 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 99/ मन्त्र 1
    ऋषिः - वम्रो वैखानसः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ । कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥

    स्वर सहित पद पाठ

    कम् । नः॒ । चि॒त्रम् । इ॒ष॒ण्य॒सि॒ । चि॒कि॒त्वान् । पृ॒थु॒ऽग्मान॑म् । वा॒श्रम् । व॒वृ॒धध्यै॑ । कत् । तस्य॑ । दातु॑ । शव॑सः । विऽउ॑ष्टौ । तक्ष॑त् । वज्र॑म् । वृ॒त्र॒ऽतुर॑म् । अपि॑न्वत् ॥


    स्वर रहित मन्त्र

    कं नश्चित्रमिषण्यसि चिकित्वान्पृथुग्मानं वाश्रं वावृधध्यै । कत्तस्य दातु शवसो व्युष्टौ तक्षद्वज्रं वृत्रतुरमपिन्वत् ॥

    स्वर रहित पद पाठ

    कम् । नः । चित्रम् । इषण्यसि । चिकित्वान् । पृथुऽग्मानम् । वाश्रम् । ववृधध्यै । कत् । तस्य । दातु । शवसः । विऽउष्टौ । तक्षत् । वज्रम् । वृत्रऽतुरम् । अपिन्वत् ॥ १०.९९.१

    ऋग्वेद - मण्डल » 10; सूक्त » 99; मन्त्र » 1
    अष्टक » 8; अध्याय » 5; वर्ग » 14; मन्त्र » 1

    पदार्थः -
    (नः) अस्मभ्यं (चित्रं कम्) चायनीयं निशाम्यं श्रोतव्यम् “चायृ पूजानिशामनयोः” [भ्वादि०] तथा कमनीयं सुखकरं (पृथुग्मानं वाश्रम्) विस्तृतपरिणामवन्तं वक्तव्यं प्रशंसनीयं वा वेदज्ञानम् (ववृध्यै) अस्माकं वर्धनाय-उन्नतये (चिकित्वान्) बोधयन् सन् (इषण्यसि) त्वं परमात्मन् !  प्रेरयसि (तस्य शवसः) तस्य बलवतः परमात्मनः (कत्-दातु) कथम्भूतमद्भुतं दानमस्ति (व्युष्टौ) विविधकामनानिमित्तं (तक्षत्) तक्षति-करोति “तक्षति करोतिकर्मा” [निरु० ४।१९] प्रकटीकरोति स परमात्मा (वृत्रतुरं वज्रम्) आवरकस्याज्ञानस्य नाशकमोजः “वज्रो वा ओजः” ज्ञानामृतम् (अपिन्वत्) अस्मासु सिञ्चति ॥१॥

    इस भाष्य को एडिट करें
    Top