ऋग्वेद - मण्डल 10/ सूक्त 99/ मन्त्र 2
स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद । स सनी॑ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ॥
स्वर सहित पद पाठसः । हि । द्यु॒ता । वि॒ऽद्युता॑ । वेति॑ । साम॑ । पृ॒थुम् । योनि॑म् । अ॒सु॒र॒ऽत्वा । स॒सा॒द॒ । सः । सऽनी॑ळेभिः । प्र॒ऽस॒हा॒नः । अ॒स्य॒ । भ्रातुः॑ । न । ऋ॒ते । स॒प्तथ॑स्य । मा॒याः ॥
स्वर रहित मन्त्र
स हि द्युता विद्युता वेति साम पृथुं योनिमसुरत्वा ससाद । स सनीळेभिः प्रसहानो अस्य भ्रातुर्न ऋते सप्तथस्य मायाः ॥
स्वर रहित पद पाठसः । हि । द्युता । विऽद्युता । वेति । साम । पृथुम् । योनिम् । असुरऽत्वा । ससाद । सः । सऽनीळेभिः । प्रऽसहानः । अस्य । भ्रातुः । न । ऋते । सप्तथस्य । मायाः ॥ १०.९९.२
ऋग्वेद - मण्डल » 10; सूक्त » 99; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 14; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 14; मन्त्र » 2
पदार्थः -
(सः-हि) स एव परमात्मा (विद्युता-द्युता) विशिष्टदीप्त्या तेजस्वितया (पृथुं साम वेति) प्रथनशीलं शान्तिपदं प्रापयति “अन्तर्गतणिजर्थः” तत्र मोक्षे (असुरत्वा) प्राणप्रदत्वेन-अतिशयितायुप्रदत्वेन (सः सनीडेभिः प्रसहानः) सः परमात्मा समानगृहवासिभिः “नीळं गृहनाम” [निघ० ३।४] उपासकात्मभिः प्रसहमानो धार्यमाणः (योनिं ससाद) तेषां हृदयगृहम् “योनिर्गृहनाम” [निघ० ३।४] सीदति, साक्षाद्भवति (अस्य भ्रातुः) अस्य भरणकर्त्तुः परमात्मनः (सप्तथस्य मायाः) सप्तस्थस्य भूरित्येवमादिषु सप्तलोकेषु स्थितस्य “सकारलोपश्छान्दसः” प्रज्ञाः-कौशलानि वा (न-ऋते) सम्प्रति न सम्प्रत्यर्थे [निरु० ६।८] उपादानकारणे प्रकृत्याख्ये-प्रवर्त्तन्ते ॥२॥