Loading...
अथर्ववेद के काण्ड - 11 के सूक्त 9 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 9/ मन्त्र 1
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - त्र्यवसाना सप्तपदा विराट्शक्वरी सूक्तम् - शत्रुनिवारण सूक्त
    66

    ये बा॒हवो॒ या इष॑वो॒ धन्व॑नां वी॒र्याणि च। अ॒सीन्प॑र॒शूनायु॑धं चित्ताकू॒तं च॒ यद्धृ॒दि। सर्वं॒ तद॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥

    स्वर सहित पद पाठ

    ये । बा॒हव॑: । या: । इष॑व: । धन्व॑नाम् । वी॒र्या᳡णि । च॒ । अ॒सीन् । प॒र॒शून् । आयु॑धम् । चि॒त्त॒ऽआ॒कू॒तम् । च॒ । यत् । हृ॒दि । सर्व॑म् । तत् । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्य: । दृ॒शे । कु॒रु॒ । उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.१॥

    स्वर रहित मन्त्र

    ये बाहवो या इषवो धन्वनां वीर्याणि च। असीन्परशूनायुधं चित्ताकूतं च यद्धृदि। सर्वं तदर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥

    स्वर रहित पद पाठ

    ये । बाहव: । या: । इषव: । धन्वनाम् । वीर्याणि । च । असीन् । परशून् । आयुधम् । चित्तऽआकूतम् । च । यत् । हृदि । सर्वम् । तत् । अर्बुदे । त्वम् । अमित्रेभ्य: । दृशे । कुरु । उत्ऽआरान् । च । प्र । दर्शय ॥११.१॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    राजा और प्रजा के कर्त्तव्य का उपदेश।

    पदार्थ

    (ये) जो (बाहवः) भुजाएँ, (याः) जो (इषवः) बाण, (च) और (धन्वनाम्) धनुषों के (वीर्याणि) वीर कर्म हैं [उनको] (असीन्) तरवारों, (परशून्) परसाओं [कुल्हाड़ों], (आयुधम्) अस्त्र-शस्त्र को, (च) और (यत्) जो कुछ (हृदि) हृदय में (चित्ताकूतम्) विचार और सङ्कल्प है, (तत् सर्वम्) उस सब [कर्म] को (अर्बुदे) हे अर्बुदि ! [शूर सेनापति राजन्] (त्वम्) तू (अमित्रेभ्यः दृशे) अमित्रों के लिये देखने को (कुरु) कर, (च) और (उदारान्) [हमें अपने] बड़े उपायों को (प्र दर्शय) दिखादे ॥१॥

    भावार्थ

    सेनापति राजा अपने योद्धाओं, अस्त्र-शस्त्रों, हृदय के विचारों और मनोरथों को दृढ़ करके शत्रुओं को रोके और प्रजा की यथावत् रक्षा करे ॥१॥

    टिप्पणी

    १−(ये) (बाहवः) भुजदण्डाः (याः) (इषवः) बाणाः (धन्वनाम्) धनुषाम् (वीर्याणि) वीरकर्माणि। शत्रुजवसामर्थ्यानि (असीन्) खङ्गान् (परशून्) कुठारविशेषान् (आयुधम्) अस्त्रशस्त्रजातम् (चित्ताकूतम्) द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्। पा० २।४।२। एकवद्भावादेकवचनम्। चित्तानां विचाराणाम्, आकूतानां संकल्पानां च समाहारः (च) (यत्) (हृदि) हृदये (सर्वम्) (तत्) (अर्बुदे) अर्ब गतौ हिंसायां च-उदिच् प्रत्ययः। हे पुरुषार्थिन् शत्रुनाशक शूर सेनापते (त्वम्) (अमित्रेभ्यः) शत्रुभ्यः (दृशे) अ० १।६।३। द्रष्टुम् (कुरु) अनुतिष्ठ (उदारान्) उद+आङ्+रा दाने-क। यद्वा उद्+ऋ गतिप्रापणयोः-घञ्। गम्भीरोपायान् (च) (प्र) प्रकृष्टेन (दर्शय) निरीक्षय ॥

    इंग्लिश (1)

    Subject

    War, Victory and Peace

    Meaning

    All fighting forces, arrows, bows, valorous marksmen and their exploits, swords, axes and deadly missiles, thoughts and plans in the mind, all these, 0 commander of the forces, mobilise, and display the thunderbolt explosives so that the enemies may see and feel demoralised.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top