Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 82 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 82/ मन्त्र 1
    सूक्त - भग देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - जायाकामना सूक्त
    41

    आ॒गच्छ॑त॒ आग॑तस्य॒ नाम॑ गृह्णाम्याय॒तः। इन्द्र॑स्य वृत्र॒घ्नो व॑न्वे वास॒वस्य॑ श॒तक्र॑तोः ॥

    स्वर सहित पद पाठ

    आ॒ऽगच्छ॑त: । आऽग॑तस्य । नाम॑ । गृ॒ह्णा॒मि॒ । आ॒ऽय॒त: । इन्द्र॑स्य । वृ॒त्र॒ऽघ्न: । व॒न्वे॒ । वा॒स॒वस्य॑ । श॒तऽक्र॑तो:॥८२.१॥

    स्वर रहित मन्त्र

    आगच्छत आगतस्य नाम गृह्णाम्यायतः। इन्द्रस्य वृत्रघ्नो वन्वे वासवस्य शतक्रतोः ॥

    स्वर रहित पद पाठ

    आऽगच्छत: । आऽगतस्य । नाम । गृह्णामि । आऽयत: । इन्द्रस्य । वृत्रऽघ्न: । वन्वे । वासवस्य । शतऽक्रतो:॥८२.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 82; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    विवाह संस्कार का उपदेशः।

    पदार्थ

    (आयतः) अति यत्नशाली वा नियमवान् मैं (आगच्छतः) आते हुए और (आगतस्य) आये हुए पुरुष का (नाम) नाम [कीर्ति] (गृह्णामि) स्वीकार करता हूँ। (वृत्रघ्नः) अन्धकारनाशक, (वासवस्य) बहुत धनवाले और (शतक्रतोः) सैकड़ों कर्मोंवाले (इन्द्रस्य) संपूर्ण ऐश्वर्य्यवाले परमात्मा की (वन्वे) में प्रार्थना करता हूँ ॥१॥

    भावार्थ

    मनुष्य परमेश्वर से प्रार्थना करके प्रयत्न करें, जिससे उनके आचरण वर्तमान और पूर्वज महात्माओं के समान धार्मिक होवें ॥१॥

    टिप्पणी

    १−(आगच्छतः) इदानीं वर्तमानस्य (आगतस्य) भूतकाले प्राप्तस्य पुरुषस्य (नाम) कीर्तनम् (गृह्णामि) स्वीकरोमि (आयतः) (आङ्+यती) प्रयत्ने−अच्, यद्वा। आङ्+यम नियमने−क्त। अतिप्रयत्नशाली। प्रशस्तनियमवान् (इन्द्रस्य) परमैश्वर्यवतः परमेश्वरस्य (वृत्रघ्नः) अन्धकारनाशस्य (वन्वे) वनु याचने। अहं याचे (वासवस्य) वसु−अण्। वसु धनम्−निघ० २।१०। वसूनि धनानि सन्ति यस्य तस्य (शतक्रतोः) क्रतुः कर्म−निघ० २।१। बहुकर्मयुक्तस्य ॥

    इंग्लिश (1)

    Subject

    Marriage Match

    Meaning

    The bridegroom that was to come is come, and has now here arrived. In observance of law and custom, I acknowledge and welcome him in truth. And I thank and adore Indra, lord omnipotent, destroyer of darkness and evil, giver of settlement in peace and prosperity, divine harbinger of the fruits of a hundred noble acts of virtue.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top