अथर्ववेद - काण्ड 2/ सूक्त 31/ मन्त्र 5
सूक्त - काण्वः
देवता - मही अथवा चन्द्रमाः
छन्दः - आर्षी त्रिष्टुप्
सूक्तम् - कृमिजम्भन सूक्त
ये क्रिम॑यः॒ पर्व॑तेषु॒ वने॒ष्वोष॑धीषु प॒शुष्व॒प्स्व॑१न्तः। ये अ॒स्माकं॑ त॒न्व॑माविवि॒शुः सर्वं॒ तद्ध॑न्मि॒ जनि॑म॒ क्रिमी॑णाम् ॥
स्वर सहित पद पाठये क्रिम॑य: । पर्व॑तेषु । वने॑षु । ओष॑धीषु । प॒शुषु॑ । अ॒प्ऽसु । अ॒न्त: । ये । अ॒स्माक॑म् । त॒न्व᳡म् । आ॒ऽवि॒वि॒शु: । सर्व॑म् । तत् । ह॒न्मि॒ । जनि॑म । क्रिमी॑णाम् ॥३१.५॥
स्वर रहित मन्त्र
ये क्रिमयः पर्वतेषु वनेष्वोषधीषु पशुष्वप्स्व१न्तः। ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम् ॥
स्वर रहित पद पाठये क्रिमय: । पर्वतेषु । वनेषु । ओषधीषु । पशुषु । अप्ऽसु । अन्त: । ये । अस्माकम् । तन्वम् । आऽविविशु: । सर्वम् । तत् । हन्मि । जनिम । क्रिमीणाम् ॥३१.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 31; मन्त्र » 5
Translation -
I eradicate the family and progeny of all those disease germs which live in forest, which live in mountains, which make their abode in herbaceous plants, which live in animals, which live in waters and which enter into our bodies.