अथर्ववेद - काण्ड 2/ सूक्त 36/ मन्त्र 7
सूक्त - पतिवेदनः
देवता - हिरण्यम्, भगः
छन्दः - अनुष्टुप्
सूक्तम् - पतिवेदन सूक्त
इ॒दं हिर॑ण्यं॒ गुल्गु॑ल्व॒यमौ॒क्षो अ॑थो॒ भगः॑। ए॒ते पति॑भ्य॒स्त्वाम॑दुः प्रतिका॒माय॒ वेत्त॑वे ॥
स्वर सहित पद पाठइ॒दम् । हिर॑ण्यम् । गुल्गु॑लु । अ॒यम् । औ॒क्ष: । अथो॒ इति॑ । भग॑: । ए॒ते । पति॑भ्य: । त्वाम् । अ॒दु॒: । प्र॒ति॒ऽका॒माय॑ । वेत्त॑वे ॥३६.७॥
स्वर रहित मन्त्र
इदं हिरण्यं गुल्गुल्वयमौक्षो अथो भगः। एते पतिभ्यस्त्वामदुः प्रतिकामाय वेत्तवे ॥
स्वर रहित पद पाठइदम् । हिरण्यम् । गुल्गुलु । अयम् । औक्ष: । अथो इति । भग: । एते । पतिभ्य: । त्वाम् । अदु: । प्रतिऽकामाय । वेत्तवे ॥३६.७॥
अथर्ववेद - काण्ड » 2; सूक्त » 36; मन्त्र » 7
Translation -
O’ bride, this gold, this bdellium, this eatable prepared of milk and this fortune--all these are presented to the party of groom by the parent and party of bride and you are given to your husband to find him accordant with you.