अथर्ववेद - काण्ड 20/ सूक्त 18/ मन्त्र 3
सूक्त - मेधातिथिः, प्रियमेधः
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-१८
इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति। यन्ति॑ प्र॒माद॒मत॑न्द्राः ॥
स्वर सहित पद पाठइ॒च्छन्ति॑ । दे॒वा: । सु॒न्वन्त॑म् । न । स्वप्ना॑य । स्पृ॒ह॒य॒न्ति॒ ॥ यन्ति॑ । प्र॒ऽमाद॑म् । अत॑न्द्रा ॥१८.३॥
स्वर रहित मन्त्र
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति। यन्ति प्रमादमतन्द्राः ॥
स्वर रहित पद पाठइच्छन्ति । देवा: । सुन्वन्तम् । न । स्वप्नाय । स्पृहयन्ति ॥ यन्ति । प्रऽमादम् । अतन्द्रा ॥१८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 18; मन्त्र » 3
Translation -
The enlightened persons prefer him who is active in proliferating knowledge, they never desire indolence and they always exerting punish the sloth.